________________
४४१ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् एवमन्यास्वपि पृथिवीषु वाच्यम् । नवरमुत्कृष्टा स्थिति: सर्वासु इत्थमवसेया
सागरमेगं तिय सत्त दस य सत्तरस तह य बावीसा ।
तेत्तीसं जाव ठिई सत्तसु वि कमेण पुढवीसु ॥१॥ [बृहत्सं० २३३] त्ति । जघन्या तु जा पढमाए जेट्ठा सा बीयाए कणिट्ठिया भणिया [बृहत्सं० २३४] 5 इत्यादिक्रमाद्भावनीया, अपर्याप्तकालस्तु सर्वत्रान्तर्मुहर्तमेव, अपर्याप्तकाले
चौधिकस्थितेर्विशोधिते सर्वत्र शेषा पर्याप्तस्थिति: । अपर्याप्ताश्च नारका देवा असङ्खयेयवर्षायुष्कतिर्यङ्-मनुष्याश्च करणत एव द्रष्टव्या:, लब्धितस्तु पर्याप्ता एव, शेषास्तु लब्ध्याऽपर्याप्ताश्च पर्याप्ताश्च सम्भवन्ति । तदेवं पूर्वाभिहितं
चतुर्विंशतिदण्डकमनुसृत्य नारकाणामायु:स्थितिर्निरूपिता । 10 अथासुरकुमाराणां निरूपयितुमाह - असुरकुमाराणं भंते ! इत्यादि सूत्रसिद्धमेव
यावन्मनुष्यसूत्रम् । नवरं पृथिव्यादीनामपर्याप्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थिति:, तत: परमवश्यं पर्याप्तत्वसम्भवात् मरणाद्वेति भावनीयम् । व्यन्तरादिसूत्राण्यपि वैमानिकसूत्रपर्यन्तानि पाठ सिद्धान्येव । नवरमेतेषामपर्याप्तानां जघन्यत
उत्कृष्टतश्चान्तर्मुहूर्तमेव स्थितिः, तत: परमवश्यं पर्याप्तत्वसंभवादेव भावनीयम्, ग्रैवेयकसूत्रे 15 चाधस्तनास्त्रयः प्रस्तटा अधस्तन| वेयकशब्देनोच्यन्ते, मध्यमास्तु त्रयो
मध्यमग्रैवेयकशब्देन, उपरितनास्तु त्रय उपरितनग्रैवेयकशब्देन । पुनरप्यधस्तनेषु त्रिषु प्रस्तटेषु मध्येऽधस्तन: प्रस्तटोऽधस्तनाधस्तनद्मवेयकशब्देन व्यपदिश्यते, मध्यमस्त्वधस्तनमध्यमशब्देन, उपरितनस्त्वधस्तनोपरिमशब्देन, एवं मध्यमेष्वपि त्रिषु
प्रस्तटेषु मध्येऽधस्तनः प्रस्तटो मध्यमाधस्तनौवेयकशब्देनाभिधीयते मध्यमस्तु 20 मध्यममध्यमशब्देन, उपरितनस्तु मध्यमोपरिमशब्देन, एवमुपरितनेष्वपि त्रिषु प्रस्तटेषु क्रमेणोपरिमाधस्तनोपरिममध्यम-उपरिमोपरिमशब्दवाच्यता भावनीयेति ।
उक्तं सप्रयोजनमद्धापल्योपमम् । क्षेत्रपल्योपममप्युक्तानुसारत एव भावनीयम् । नवरं व्यावहारिकपल्योपमे जे णं तस्स पल्लस्सेत्यादि, तस्य पल्यस्यान्तर्गता नभ:प्रदेशास्तैर्वालाग्रैर्ये अप्फुण्ण त्ति आस्पृष्टा व्याप्ता आक्रान्ता इति यावत्, तेषां 25 सूक्ष्मत्वात् प्रतिसमयमेकै कापहारे असङ्ख्येया उत्सर्पिण्यवसर्पिण्यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org