________________
४४०
अनुयोगद्वारसूत्रम् [सू० ३६८-४०४] तदसङ्ख्येयभागमात्राण्येकैकशस्तानि भवन्ति ।
__द्रव्यतो निरूप्याथ क्षेत्रतस्तन्मानमाह- सुहुमस्सेत्यादि । अयमत्र भावार्थ:सूक्ष्मपनकजीवशरीरं यावति क्षेत्रेऽवगाहते ततोऽसङ्ख्येयगुणानि प्रत्येकं तानि भवन्ति । बादरपृथिवीकायिकपर्याप्तशरीरतुल्यानीति वृद्धवादः । एषां च वालाग्रखण्डानामसङ्ख्ये यत्वात् प्रतिसमयमुद्धारे किल सङ्ख्ये या 5 वर्षकोटयोऽतिक्रामन्ति, अत: सङ्ख्येयवर्षकोटिमानमिदमवसेयम् । शेषं तूक्तार्थप्रायं यावत् जावइया अड्डाइजाणं उद्धारसागरोवमाणमित्यादि, यावन्तोऽर्द्धतृतीयसागरोपमेषु उद्धारसमया वालाग्रोद्धारोपलक्षिता: समया उद्धारसमया: एतावन्तो द्विगुणद्विगुणविष्कम्भा द्वीप-समुद्रा यथोक्तेनोद्धारेण प्रज्ञप्ता:, असङ्ख्येया इत्यर्थः ।
10 उक्तमुद्धारपल्योपमम्, अथाद्धापल्योपमं निरूपयितुमाह - से किं तं अद्धापलिओवमे इत्यादि । इदमप्युद्धारपल्योपमवत् सर्वं भावनीयम् । नवरमुद्धारकालस्येह वर्षशतमानत्वाद् व्यावहारिकपल्योपमे सङ्ख्ये या वर्षकोटयोऽवसेया:, सूक्ष्मपल्योपमे त्वसङ्ख्येया इति ।
____ यदि नारकादीनामायूंष्येतैर्मीयन्ते तर्हि नारकाणां भदन्त ! कियन्तं कालं 15 स्थितिः प्रज्ञप्ता ? स्थीयते नारकादिभवेष्वनयेति स्थिति: आयु:कर्मानुभवपरिणतिः। इह यद्यपि कर्मपुद्गलानां बन्धकालादारभ्य निर्जरणकालं यावत् सामान्येनावस्थिति: कर्मशास्त्रेषु स्थिति: प्रतीता [ग्रन्थाग्रं ४०००] तथाऽप्यायु:कर्मपुद्गलानुभवनमेव जीवितं रूढम्, शास्त्रकारस्यापि च दशवर्षसहस्रादिकां स्थितिं प्रतिपादयतस्तदेवाभिधातुमभिप्रेतम्, अन्यथा बद्धेनायुषा प्राग्भवे यावन्तं कालमवतिष्ठते जन्तुस्तेन समधिकैव 20 दशवर्षसहस्रादिका स्थितिरुक्ता स्यात्, न चैवम्, तस्मानारकादिभवप्राप्तानां प्रथमसमयादारभ्यायुषोऽनुभवकाल एवावस्थितिः, सा च नारकाणामौघिकपदे जघन्यतो दश वर्षसहस्राणि, उत्कृष्टतस्तु त्रयस्त्रिंशत्सागरोपमाणि । रत्नप्रभायां जघन्या तथैव, उत्कृष्टा तु सागरोपमम् । अपर्याप्तपदे जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव, तत: परमवश्यमेषां पर्याप्तत्वसम्भवात् । पर्याप्तपदे चापर्याप्तकालेन हीना औधिक्येव स्थितिर्द्रष्टव्या, 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org