________________
४३९ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् निर्गतरज:कल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजःकोष्ठागारवत्, तथा निल्लेवे त्ति अत्यन्तसंश्लेषात् तन्मयतागतवालाग्रलेपापहारान्निर्लेपः अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवत्, एभिस्त्रिभिः प्रकारैर्निष्ठितो विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण 5 व्याख्येयम्, एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति, एतच्च पल्यान्तर्गतवालाग्राणां सङ्खयेयत्वात् सङ्ख्येयैः समयैस्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्रष्टव्यम् । सेत्तमित्यादि निगमनम् ।
व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह - एएसिं पल्लाणं गाहा । एतेषाम् अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमं 10 भवतीति तात्पर्यम् । शिष्यः पृच्छति - एतैर्व्यावहारिकपल्योपम-सागरोपमैः किं प्रयोजनम् ? कोऽर्थः साध्यते ? अत्रोत्तरम् - नास्ति किञ्चित् प्रयोजनम् । निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह- केवलं प्रज्ञापना प्रज्ञाप्यते प्ररूपणामात्रं क्रियत इत्यर्थः । ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम् ? अतो यत् किञ्चिदेतत्, नैवम्, अभिप्रायापरिज्ञानात्, एवं हि मन्यते - बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद्, 15 अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततो नैरर्थक्यमनुभवति । तर्हि नास्ति किञ्चित् प्रयोजनमित्ययुक्तं प्राप्नोतीति चेत्, नैवम्, एतावतः प्रयोजनस्याल्पत्वेनाविवक्षितत्वात्, एवं बादराद्धापल्योपमादावपि वाच्यम् ।
से किं तं सुहुमे इत्यादि गतार्थमेव यावत् तत्थ णं एगमेगे वालग्गे असंखेज्जाइमित्यादि, पूर्वं वालाग्राणि सहजान्येव गृहीतानि, अत्र 20 त्वेकैकमसङ्ख्येयखण्डीकृतं गृह्यत इति भाव:, एवं सत्येकैकखण्डस्य यन्मानं भवति तन्निरूपयितुमाह- ते णं वालग्गा दिट्ठीओगाहणाओ इत्यादि, तानि खण्डीकृतवालाग्राणि प्रत्येकं दृष्ट्यवगाहनातः असङ्ख्येयभागमात्राणि, दृष्टिः चक्षुर्द्वारोत्पन्नदर्शनरूपा, साऽवगाहते परिच्छेदद्वारेण प्रवर्तते यत्र वस्तुनि तदेव वस्तु इह दृष्ट्यवगाहना प्रोच्यते, ततोऽसङ्ख्ये यभागवर्तीनि प्रत्येकं वालाग्रखण्डानि मन्तव्यानि । 25 इदमुक्तं भवति - यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति
१. कोटीभि खं० पा१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org