________________
४३८
अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४] द्विविधं प्रज्ञप्तम्, तद्यथा- वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मं च, तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामात्रव्यवहारोपयोगित्वाद् व्यावहारिकं चेति । तत्र यत् तत् सूक्ष्मं तत् स्थाप्यम्, तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया:, पश्चात् प्ररूपयिष्यते इति भावः ।
5 तत्र यत्तद् व्यावहारिकमुद्धारपल्योपमं तदिदम्'इति शेषः, तदेव विवक्षुराहसे जहानामए इत्यादि । तद्यथानाम धान्यपल्य इव पल्यः स्यात्, स च वृत्तत्वादायामविष्कम्भाभ्यां दैर्घ्य-विस्तराभ्यां प्रत्येकमुत्सेधाङ्गुलक्रमनिष्पन्नं योजनम्, ऊर्ध्वमुच्चत्वेनापि [योजनम्] । तद्योजनं त्रिगुणं सविशेषं परिरयेणं भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधे: किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि 10 पल्यस्य किञ्चिन्यूनषड्भागाधिकानि त्रीणि योजनानि परिधिर्भवतीत्यर्थः । स पल्य: एक्काहिय-बेहिय-तेहिय त्ति षष्ठीबहुवचनलोपादेकाहिक-व्याहिक - त्र्याहिकीनामुत्कर्षत: सप्तरात्रप्ररूढानां भृतो वालाग्रकोटीनामिति सम्बन्धः । तत्र मुण्डिते शिरस्येकेनाह्रा यावत्प्रमाणा वालाग्रकोटय उत्तिष्ठन्ति ता एकाहिक्यः, द्वाभ्यां तु या उत्तिष्ठन्ति ता व्याहिक्य:, त्रिभिस्तु त्र्याहिक्य:, कथंभूत इत्याह- संमृष्ट आकर्णं 15 पूरितः, सन्निचित: प्रचयविशेषानिबिडीकृत: । किं बहुना ? एवं भृतोऽसौ येन तानि वालाग्राणि नाग्निर्दहेत्, न वायुरपहरेत्, अतीव निचितत्वादग्नि-पवनावपि न तत्र क्रामत इत्यर्थः। नो कुच्छेज त्ति नो कुथ्येयुः, प्रचयविशेषादेव शुषिराभावात्, वायोरसम्भवाच्च नासारतां गच्छेयुः अत एव च नो परिविद्धंसेज त्ति कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरनित्यर्थः, अत एव च नो पूइत्ताए 20 हव्वमागच्छेज त्ति न पूतित्वेन कदाचिदप्यागच्छेयुः, न कदाचिद् दुर्गन्धितां प्राप्नुयुरित्यर्थः, तओ णं ति तेभ्यो वालाग्रेभ्य: समये समये एकैकं वालाग्रमपहत्य 'कालो मीयते' इति शेषः, ततश्च जावइएणमित्यादि, यावता कालेन स पल्य: क्षीणो वालाग्रकर्षणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा नीरए त्ति १. योजनं खसं० विना नास्ति ॥ २. कादीना' जे२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org