________________
४३७ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम्
सेसा य तिरिय-मणुया लद्धिं पप्पोववायकाले य । दुहओ वि य भइयव्वा पज्जत्तियरे य जिणवयणं ॥२॥ [ ]
इत्थं क्षेत्रपल्योपममपि प्रायो निगदसिद्धमेव । णवरं अप्फुण्णा वा अणफुण्णा व त्ति, अत्र अफुण्णा स्पृष्टा व्याप्ता आक्रान्ता इति यावत्, विपरीतं अणफुण्णा। 5 आह- यद्येते सर्वेऽपि परिगृह्यन्ते किं वालाग्रैः प्रयोजनम् ? उच्यते- एतद्धि दृष्टिवादे द्रव्यमानोपयोगि, स्पृष्टा-ऽस्पृष्टैश्च भेदेन मीयन्त इति प्रयोजनम् । कूष्माण्डानि पुंस्फलानि, मातुलुङ्गानि बीजपूरकाणि । अनस्पृ(अस्पृ?)ष्टाश्च, क्षेत्रप्रदेशापेक्षया वालाग्राणां बादरत्वादिति। धम्मत्थिकाए इत्यादि । अत्र धर्मास्तिकायादयः प्राग्निरूपितशब्दार्था
एव । नवरं धर्मास्तिकाय: सङ्ग्रहनयाभिप्रायादेक एव । धर्मास्तिकायस्य 10 देश: व्यवहारनयाभिप्रायाद् व्यादिविभाग: । धर्मास्तिकायस्य प्रदेशा इति ऋजुसूत्रनयाभिप्रायादन्त्या एव गृह्यन्ते, असङ्ख्येयप्रदेशात्मकत्वाच्च बहुवचनम् । अद्धासमय: इति वर्तमानकाल:, अतीता-ऽनागतयोर्विनष्टा-ऽनुत्पन्नत्वादिति ।
[हे० ३६८-४०४] तदेव निरूपयितुमाह - से किं तं ओवमिए इत्यादि । उपमया निर्वृत्तमौपमिकम्, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते 15 तदौपमिकमिति भावः । तच्च द्विधा- पल्योपमं सागरोपमं च, तत्र धान्यपल्यवत्
पल्यो वक्ष्यमाणस्वरूपः, तेनोपमा यस्मिन् तत् पल्योपमम्, तथा महत्त्वसाम्यात् सागरेणोपमा यत्र तत् सागरोपमम्, तच्च पल्योपमं त्रिधा- तद्यथाउद्धारपलिओवमे येत्यादि, तत्र वक्ष्यमाणस्वरूपवालाग्राणां तत्खण्डानां वा तद्द्वारेण
द्वीप-समुद्राणां वा प्रतिसमयमुद्धरणम् अपोद्धरणमपहरणमुद्धारः, तद्विषयं तत्प्रधानं वा 20 पल्योपममुद्धारपल्योपमम् । तथा अद्धति काल:, स चेह प्रस्तावाद्वक्ष्यमाणवालाग्राणां
तत्खण्डानां वा प्रत्येकं वर्षशतलक्षण उद्धारकालो गृह्यते, अथवा यो नारकाद्यायु:काल: प्रकृतपल्योपममेयत्वेन वक्ष्यते स एवोपादीयते, ततस्तत्प्रधानं पल्योपममद्धापल्योपमम्। तथा क्षेत्रम् आकाशम्, तदुद्धारप्रधानं पल्योपमं क्षेत्रपल्योपमम् ।
तत्राद्यं निरूपयितुमाह- से किं तं उद्धारपलिओवमे इत्यादि। उद्धारपल्योपमं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org