________________
अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४]
४३६ प्ररूपणाकरणमात्ररूपत्वेनाविवक्षितत्वादित्येवं सर्वत्र योजनीयमिति। शेषमुत्तानार्थं यावत् तानि वालाग्राण्यसङ्ख्येयखण्डीकृतानि दृष्ट्यवगाहनातोऽसङ्ख्येयभागमात्राणि, एतदुक्तं भवति - यत् पुद्गलद्रव्यं विशुद्धचक्षुर्दर्शनी छद्मस्थः पश्यति तदसङ्ख्येयभागमात्राणीति ।
अथवा क्षेत्रमधिकृत्य मानमाह-सूक्ष्मपनकजीवस्य शरीरावगाहनातो- 5 ऽसङ्ख्येयगुणानि, अयमत्र भावार्थ:- सूक्ष्मपनकजीवावगाहनाक्षेत्रादसङ्ख्येयगुणक्षेत्रावगाहमानानि । बादरपृथिवीकायिकपर्याप्तक-शरीरतुल्यानीति वृद्धवादः । शेषं निगदसिद्धं यावत् जावइया अट्ठाइजाणमित्यादि, यावन्तोऽर्द्धतृतीयेषु [उद्धारसागरोपमेषु] अपोद्धारसमया: वालाग्रापोद्धारोपलक्षिता: समया अपोद्धारसमया: एतावन्तो द्विगुण-द्विगुणविष्कम्भा द्वीप-समुद्रा अपोद्धारेण प्रज्ञप्ता:, असङ्ख्येया 10 इत्यर्थः । उक्तमपोद्धारपल्योपमम् ।।
अद्धापल्योपमं तु प्रायो निगदसिद्धमेव । नवरं स्थीयते अनयेत्यायुष्ककर्मपरिणत्या नारकादिभवेष्विति स्थिति:, जीवितमायुष्कमित्यनर्थान्तरम् । यद्यपि कायादियोगगृहीतानां कर्मपुद्गलानां ज्ञानावरणादिरूपेण परिणा(ण) मितानां यदवस्थानं सा स्थिति: तथाप्यायुष्कपुद्गलानुभवनमेव जीवितमिति कृत्वा रूढित: इयमेव स्थितिरिति । 15
पज्जत्ता-ऽपज्जत्तगविभागो य एसो- णारगा करणपज्जत्तीए चेव अपज्जत्तगा हवंति, ते य अंतोमुहुत्तं, लद्धिं पुण पडुच्च णियमा पजत्तगा चेव, तओ अपजत्तगकालो सव्वाउगातो अवणिज्जति, सेसो य पज्जत्तगसमयो त्ति, एवं सव्वत्थ दट्ठव्वं । एवं देवा वि करणपजत्तीए चेव अपजत्तगा दट्ठव्वा, लद्धिं पुण पडुच्च णियमा पज्जत्तगा चेव । गब्भववंतियपंचिंदिया पुण तिरिया मणुया य जे असंखेज्जवासाउया ते वि 20 करणपजत्तीए चेव अपजत्तगा, सेसा पुण तिरिय-मणुया लद्धिं पि पडुच्च पजत्तगा अपज्जत्तगा य दट्ठव्वा इति । उक्तं च
नारग-देवा तिरि-मणुय गन्भजा जे असंखवासाऊ ।
एते उ अपज्जत्ता उववाते चेव बोद्धव्वा ॥१॥ १. विशुद्धं चक्षुर्दर्शनीयं छद्मस्थः प्र० ॥ २. “तथा चाऽनुयोगद्वारटीकाकृदाह हरिभद्रसूरिः- “बादरपृथिवीकायिक पर्याप्तशरीरतुल्यान्यसंख्येयानि खण्डानीति वृद्धवादः' - इति मलयगिरिसूरिविरचितायां बृहत्संग्रहणीटीकायाम्, गा० ४ ॥ २ "त्यायुक्तकर्म प्र० ॥ ४ "मायुष्मानित्य प्र० ॥ ५. प्यायुक्तपु प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org