________________
४३५ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् इत्यत: पश्चात् प्ररूपयिष्याम: । तत्र यत् तद् व्यावहारिकमपोद्धारपल्योपमं तदिदं वक्ष्यमाणलक्षणम्-तद् यथानाम पल्य: स्याद् योजनम् आयाम-विष्कम्भाभ्याम्, वृत्तत्वात् । योजनमूर्ध्वमुच्चत्वेन, अवगाहनतयेति भावना । तद् योजनं त्रिगुणं सत्रिभाग परिरयेण, भ्रमिमधिकृत्येत्यर्थः। स एकाह्निक-व्याह्निक-त्र्याह्निकादीनाम् 5 उत्कृष्टं सप्तरात्रिकाणां भृतो वालाग्रकोटीनामिति प्रायोग्य:, तत्रैकाह्निक्यो मुण्डिते शिरस्येकेनाला या भवन्तीति, एवं शेषास्वपि भावना कार्येति । कथं भृतः ? इत्याहसम्मट्टे सण्णिचिते, सम्मृष्टः आकर्णभृतः, [सन्निचितः] प्रचयविशेषानिबिड: । किं बहुना ? इत्थं भृतोऽसौ येन तानि वालाग्राणि नाग्निर्दहेत्, नापि वायुहरेत्, न कुथेयुः
प्रचयविशेषात् सुसि(षि?)राभावाद् वायोरसम्भवान्नासारतां गच्छेयुरित्यर्थः, न 10 विध्वंसेरन् अत एव कतिपयपरिशाटमप्यङ्गीकृत्य न विध्वंसं गच्छेयुः, अत एव न
पूतित्वेन, अर्थाद्विभक्तिपरिणामः, ततश्च न पूतिभावं कदाचिदागच्छेयु:, अथवा न पूतित्वेन कदाचित् परिणमेयुः । ततो णं समए समए, ततस्तेभ्यो वालाग्रेभ्य: समये समये एकैकं वालाग्रमपहत्य ‘कालो मीयते' इति शेषः, ततश्च यावता कालेन
स पल्य: क्षीणो नीरजा निर्लेपो निष्ठितो भवति एतावान् कालो 15 व्यावहारिकापोद्धारपल्योपमम् ‘उच्यते' इति शेषः । तत्र व्यवहारनयापेक्षया पल्यधान्य
इव कोष्ठाकार: स्वल्पवालाग्रभावेऽपि क्षीण इत्युच्यते, तदभावज्ञापनार्थमाह- नीरजाः। एवमपि कदाचित् कथञ्चित् सूक्ष्मवालाग्रावयवसम्भव इति तदपोहायाह- निर्लेप इति। एवं त्रिभिः प्रकारैः विरिक्तो निष्ठित इत्युच्यते । रसवतीदृष्टान्तेन चैतद् भावनीयम्,
एकार्थिकानि वा एतानि । सेत्तमित्यादि निगमनम्, शेषं सूत्रसिद्धं यावद् नास्ति 20 किञ्चित् प्रयोजनमिति । अत्रोपन्यासानर्थकताप्रतिषेधायाऽऽह-केवलं तु प्रज्ञापनार्थं
प्रज्ञाप्यते, प्ररूपणा क्रियत इत्यर्थः । आह-एवमप्युपन्यासानर्थकत्वमेव, प्रयोजनमन्तरेण प्ररूपणाकरणस्याप्यनर्थकत्वात्, उच्यते- सूक्ष्मपल्योपमोपयोगित्वात् सप्रयोजनैव प्ररूपणेत्यदोष: । वक्ष्यति च- तत्थ णं एगमेगे वालग्गे इत्यादि । आह- एवमपि नास्ति किञ्चित् प्रयोजनमित्ययुक्तम्, अस्यैव प्रयोजनत्वाद्, नैतदेवम्, एतावत: १. प्रायोयः प्र० ॥ २. तत्राह्निक्यो प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org