________________
अनुयोगद्वारसूत्रम् [ सू० ३६८-४०४]
४३४ एवमधम्मत्थिकाया-ऽऽकासे वि भाणितव्वा, अण्णं चात्र अवयवा-ऽवयवीणं अणण्णभावो दंसितो भवतीत्यर्थः । अद्धा इति कालाभिधाणं, तस्स समयो अद्धासमयो, सो य णिच्छयतो एग एव वट्टमाणो, तस्स य एगत्तणतो कायता णत्थि, अतो तस्स देस-पदेसभावकप्पणा वि णत्थि ।
से किं तं रूविअजीव इत्यादि । तत्थ खंधादीण बहवयणणिद्देसो कम्हा?, 5 उच्यते, जम्हा पोग्गलत्थिकाए अणंता खंधदव्वा खंधदेसाण पदेसाणं च संखेया[ऽसंखेया-]ऽणतसम्भवतो बहुवयणणिद्देसो कतो । किंच, जेसिं खंधत्तपरिणयाणमेव बुद्धीए णिरंसकप्पणा कप्पिज्जति ते पदेसा भाणितव्वा । जे पुण खंधत्तेण अबद्धा प्रत्येकभावट्ठिता ते परमाणुपोग्गल त्ति भणिता । सेसं कंठं ।।
- [हा० ३६८-४०४] से किं तं ओवमिए ? ओवमिए त्ति, उपमया 10 निर्वृत्तमौपमिकम्, उपमामन्तरेण यत् कालप्रमाणमनतिशयिना ग्रहीतुं न शक्यते तदौपमिकमिति भावः । तच्च द्विधा-पल्योपमं सागरोपमं च। तत्र धान्यपल्यवत् पल्य:, तेनोपमा यस्मिंस्तत् पल्योपमम् । तथाऽर्थत: सागरेणोपमा यस्मिन् तत् सागरोपमम्, सागरवन्महत्परिमाणमित्यर्थः ।
तच्च पल्योपमं त्रिधा- उद्धारपलिओवमं इत्यादि, तत्र उद्धार इति प्रतिसमयं 15 वालाग्राणां वा तत्खण्डानां वा तद्द्वारेण द्वीप-समुद्राणां वा अपोद्धरणमुच्यते, तद्विषयं तत्प्रधानं वा पल्योपममपोद्धारपल्योपमम् । तथा अद्धति कालाख्या, ततश्च वालाग्राणां तत्खण्डानां वा वर्षशत-वर्षशतोद्धरणादद्धापल्य:, तेनोपमा यस्मिन्, अथवा अद्धा आयु:कालः, सोऽनेन नारकादीनामानीयत इत्यद्धापल्योपमम् । तथा क्षेत्रमिति आकाशम्, ततश्च प्रतिसमयमुभयथाऽपि क्षेत्रप्रदेशापहारात् क्षेत्रपल्योपममिति । 20
से किं तं उद्धारपलिओवमे ? उद्धारपलिओवमे, अपोद्धारपल्योपमं द्विविधं प्रज्ञप्तम्, तद्यथा- सूक्ष्मं च व्यावहारिकं च । वालाग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मम्। बादराणां व्यावहारिकत्वाद् व्यावहारिकम्, प्ररूपणामात्रव्यवहारोपयोगित्वाद्वा व्यावहारिकमिति। से ठप्पे त्ति तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणाया १. हिरवयवकप्पणा सं१,३ ॥ २. ओवमए २ त्ति प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org