SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ४१३ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् विदार्यमाणत्वाच्छद्मस्थानुभवविषयस्य च समयप्रसाधकस्य विशिष्टक्रियाविशेषस्य कस्यचिद्दर्शयितुमशक्यत्वाद् एत्तो वि णं सुहुमतराए समए इति सामान्येनैवोक्तवानिति एकस्मादुपरितनपक्ष्मच्छे दनकालादसङ्ख्याततमोऽश: समय इति स्थितम् । युगपदनन्तसङ्घातविदारणहेतुपूर्वोक्तप्रयत्नविशेषसिद्धिश्च नगरादिप्रस्थिता5 नवरतप्रवृत्तपुरुषादेः प्रयत्नविशेषात् प्रतिक्षणं बहूनभ:प्रदेशान् विलच्याचिरेणैवेष्टदेशप्राप्तेर्भावनीया, यदि पुनरसौ क्रमेणैकैकं व्योमप्रदेशं लङ्घयेत् तदा असङ्ख्येयोत्सर्पिण्यवसर्पिणीभिरेवेष्टदेशं प्राप्नुयात्, अंगुलसेढीमित्ते ओसप्पिणीओ असंखेज्जा [आवश्यकनि०३७] इत्यादिवचनादिति भावः । न चातीन्द्रियेष्वर्थेषु एकान्तेन युक्तिनिष्ठैर्भाव्यम्, सर्वज्ञवचनप्रामाण्याद् । उक्तं च आगमश्चोपपत्तिश्च सम्पूर्णं विद्धि लक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥१॥ आगमश्चाप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥२॥ उपपत्तिर्भवेद्युक्तिर्या सद्भावप्रसाधिका । 15 साऽन्वय-व्यतिरेकादिलक्षणा सूरिभिः कृता ॥३॥ [ ] इति । निदर्शितं चेहोभयमपीत्यलं विस्तरेण । शेषं गतार्थं यावत् हट्ठस्स गाहा, हृष्टस्य तुष्टस्य अनवकल्यस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तो: मनुष्यादेरेक उच्छ्वासयुक्तो नि:श्वास: उच्छ्वासनिःश्वासः, एष प्राण उच्यते, शोक-जरादिभिरस्वस्थस्य 20 जन्तोरुच्छ्वासनिःश्वासः त्वरितादिस्वरूपतया स्वभावस्थो न भवत्यतो हृष्टादिविशेषणोपादानम् । सत्त पाणूणीत्यादि श्लोकः, सप्त प्राणा यथोक्तस्वरूपा: स एकः स्तोकः, सप्त स्तोका: स एको लवः, लवानां सप्तसप्तत्या यो निष्पद्यते एष मुहूर्तो व्याख्यातः । 25 साम्प्रतं सप्तसप्ततिलवमानतया सामान्येन निरूपितं मुहूर्तमेवोच्छ्वाससङ्ख्यया HTTA Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001107
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 02
Original Sutra AuthorAryarakshit
AuthorJambuvijay
PublisherMahavir Jain Vidyalay
Publication Year2000
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy