________________
अनुयोगद्वारसूत्रम् [सू० ३६३ - ३६७ ]
४१२
तन्तौ अच्छिन्ने अविदारिते ट्ठिले त्ति आधस्त्यतन्तुर्न छिद्यते, अतोऽन्यस्मिन् काले उपरितनस्तन्तुः छिद्यते अन्यस्मिन् काले आधस्त्यः, तस्मादसौ समयो न भवति, एवं वदन्तं प्रज्ञापकं प्रेरक एवमवादीत् - येन कालेन तेन तुन्नागदारकेण तस्या: पटसाटिकाया उपरितनस्तन्तुश्छिन्नः स समयः किं भवतीति शेष: । अत्र प्रज्ञापक आह- न भवतीति, कस्मात् ? यस्मात् सङ्ख्येयानां पक्ष्मणां लोके 5 प्रतीतस्वरूपाणां समुदयेत्यादि सर्वं तथैव यावत्तस्मादसौ समयो न भवति । एवं वदन्तं प्रज्ञापकमित्याद्युपरितनपक्ष्मसूत्रमपि तथैव व्याख्येयम्, नवरमनन्तानां परमाणूनां विशिष्टैकपरिणामापत्तिः सङ्घात:, तेषामनन्तानां संघातानां यः समुदयः संयोगस्तेषां समुदयानां या अन्योन्यानुगतिरसौ समितिः, तासां समागमेन एकवस्तुनिर्वर्तनाय मीलनेन उपरितनपक्ष्मोत्पद्यते, समुदायवाचकत्वेनैकार्था वा समुदयादय:, 10 तस्मादसावुपरितनैकपक्ष्मच्छेदनकालः समयो न भवति । कस्तर्हि समय इत्याह- एत्तो णमित्यादि, एतस्माद् उपरितनैकपक्ष्मच्छेदनकालात् सूक्ष्मतरः समयः प्रज्ञप्तो हे ! श्रमणायुष्मन्निति ।
I
अत्राह- ननु यद्यनन्तैः परमाणुसङ्घातैः पक्ष्म निष्पद्यते, ते च सङ्घाताः क्रमेण छिद्यन्ते, तर्ह्येकस्मिन्नपि पक्ष्मणि विदार्यमाणे अनन्ताः समया लगेयुः, एतच्चागमेन 15 सह विरुध्यते, तत्रासङ्ख्येयास्वप्युत्सर्पिण्यवसर्पिणीषु समयासङ्ख्येयकस्यैव प्रतिपादनात्, यत उक्तम्- असंखेज्जासु णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! असंखेज्जा । अणंतासु णं भंते ! ओसप्पिणिउस्सप्पिणीसु केवइया समया पण्णत्ता ? गोयमा ! अणंता [ ], तदेतत् कथम्, अत्रोच्यते - अस्त्येतत्, किन्तु पाटनप्रवृत्तपुरुषप्रयत्नस्याचिन्त्यशक्तित्वात् प्रतिसमयमनन्तानां सङ्घातानां छेदः संपद्यते, एवं ं च सत्येकस्मिन् समये यावन्तः सङ्घाताश्छिद्यन्ते तैरनन्तैरपि स्थूलतर एक एव सङ्घातो विवक्ष्यते, अत एवम्भूताः स्थूलतरसङ्घाता एकस्मिन् पक्ष्मणि असङ्ख्या एव भवन्ति, तेषां च क्रमेण छेदने असङ्ख्येयैः समयैः पक्ष्म छिद्यते, अतो न कश्चिद्विरोधः, इत्थं च विशेषतः सूत्रे अनुक्तमप्यवश्यं प्रतिपत्तव्यम्, अन्यथा ग्रन्थान्तरैः सह विरोधप्रसङ्गात्, सूत्राणां च सूचामात्रत्वादिति । ततोऽसङ्ख्येयैरेव समयैर्यथोक्तपक्ष्मणो 25
Jain Education International
For Private & Personal Use Only
20
www.jainelibrary.org