________________
४११ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् सामर्थ्यविघ्नहेतुरितीत्थं विशेषणम् । जुवाणे त्ति युवा यौवनस्थ:, प्राप्तवया एष इत्येवम् अणति व्यपदिशति लोको यमसौ निरुक्तिवशात् युवानः, बाल्यादिकालेऽपि दारकोऽभिधीयते अतो विशिष्ट वयोऽवस्थापरिग्रहार्थमेतद्विशेषणम् ।
अल्पशब्दोऽभाववचनः, अल्प आतङ्को रोगो यस्य स तथा, निरातङ्क इत्यर्थः । स्थिरः 5 प्रकृतपटं पाटयतोऽकम्पोऽग्रहस्तो हस्ताग्रं यस्य स तथा । दृढं पाणि-पादं यस्य पार्टी पृष्ठ्यन्तरे च ऊरू च परिणते परिनिष्ठिततां गते यस्य स तथा, सर्वावयवैरुत्तमसंहनन इत्यर्थः। तलयमलयुगलपरिघणिभबाहः, तलौ तालवृक्षौ, तयोर्यमलं समश्रेणीकं यद् युगलं द्वयं परिघश्च अर्गला तन्निभौ तत्सदृशौ दीर्घ-सरल
पीनत्वादिना बाहू यस्य स तथा, आगन्तुकोपकरणजं सामर्थ्यमाह- चर्मेष्टका-द्रुघण10 मुष्टिकसमाहतनिचितगात्रकायः, चर्मेष्टकया द्रुघणेन मुष्टिकेन च समाहतानि
प्रतिदिनमभ्यासप्रवृत्तस्य निचितानि निबिडीकृतानि गात्राणि स्कन्धोरुपृष्ठादीनि यत्र स तथाविध: कायो देहो यस्य स तथा, चर्मेष्टकादयश्च लोकप्रतीता एव ।
औरस्यबलसमन्वागत आन्तरोत्साहवीर्ययुक्तः। व्यायामवत्तां दर्शयति- लङ्घनप्लवन-जवनव्यायामसमर्थः, जवनशब्द: शीघ्रवचनः। छेकः प्रयोगज्ञः । दक्ष: 15 शीघ्रकारी । प्राप्तार्थ: अधिकृते कर्मणि निष्ठां गतः, प्राज्ञ इत्यन्ये । कुशल:
आलोचितकारी । मेधावी सकृच्छ्रुत-दृष्टकर्मज्ञः । निपुण उपायारम्भकः। निपुणशिल्पोपगत: सूक्ष्मशिल्पसमन्वित: । एवंविधो ह्यल्पेनैव कालेन साटिकां पाटयतीति बहुविशेषणोपादानम् । स इत्थम्भूत एकां महती पटसाटिकां वा पट्टसाटिका
वा, पटसाटिकाया इयं श्लक्ष्णतरेति भेदेनोपादानम्, गृहीत्वा सयराहमिति सकृत्, 20 झटिति कृत्वेत्यर्थः, हस्तमात्रमपसारयेत् पाटयेदित्यर्थः । तत्रैवं स्थिते प्रेरक: शिष्यः प्रज्ञापयतीति प्रज्ञापको गुरुस्तमेवमवादीत्, किम् ? येन कालेन तेन तुण्णागदारकेण तस्या: पटसाटिकाया: वा पट्टसाटिकाया वा सकृद्धस्तमात्रमपसारितं पाटितमसौ समयो भवति? प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति । कस्मादिति पृष्ट
उपपत्तिमाह- यस्मात् सङ्खयेयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववद्, एकार्था 25 वा सर्वेऽप्यमी समुदायवाचका:, पटसाटिका निष्पद्यते, तत्र च उवरिल्ले त्ति उपरितने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org