________________
अनुयोगद्वारसूत्रम् [ सू० ३६३-३६७]
४१० गुणिता जहुत्तमाणं हवंति । शेषं निगदसिद्धं यावत् एतावता चेव गणितस्स विसए, तेण परं ओवमिते त्ति । णवरमेतस्स उवओगो इमो- अन्तोमुत्तादिया जाव पुव्वकोडि त्ति, एताणि धम्मचरणकालं पडुच्च नर-तिरियाण आउपरिमाणकरणे उवउज्जति । णारग-भवण-वंतराणं दसवाससहस्सादिया उवउज्जति आउयचिंताए । तुडियादिया सीसपहेलियंता, एते प्रायसो पुव्वगते जवितेसु आउसेढीए उवउज्जति त्ति ।
हे० ३६३-३६७] अथ कालप्रमाणमुच्यते - से किं तं कालप्पमाणे इत्यादि गतार्थमेव, नवरमिह प्रदेशा: कालस्य निर्विभागा भागा:, तैर्निष्पन्नं प्रदेशनिष्पन्नम्, तत्रैकसमयस्थितिक: परमाणु: स्कन्धो वा एकेन कालप्रदेशेन निष्पन्नः, द्विसमयस्थितिकस्तु द्वाभ्याम्, एवं यावदसङ्खयेयसमयस्थितिकोऽसङ्ख्येयैः कालप्रदेशैर्निर्वृत्तः, परतस्त्वेकेन रूपेण पुद्गलानां स्थितिरेव नास्ति । प्रमाणता चेह प्रदेशनिष्पन्नद्रव्यप्रमाणवद्भावनीया। विभागनिष्पन्नं तु समयादि, तथा चाह- समयावलिय गाहा । एतां च गाथां स्वयमेव 10 विवरीषुः सर्वेषामपि कालभेदानां समयादित्वात् तन्निर्णयार्थं तावदाह - से किं तमित्यादि, अथ कोऽयं समय इति पृष्टे सत्याह- समयस्य प्ररूपणां विस्तरवती व्याख्यां करिष्यामि, सूक्ष्मत्वात् संक्षेपत: कथितोऽपि नासौ सम्यक् प्रतीतिपथमवतरतीति भावः। तदेवाह- से जहानामए इत्यादि, स कश्चित् यथानामको यत्प्रकारनामा, देवदत्तादिनामेत्यर्थः, तुण्णागदारए सूचिक इत्यर्थः, स्यात् भवेत्, य: किमित्याह- 15 तरुणादिविशेषणविशिष्टः पटसाटिकां पट्टसाटिकां वा गृहीत्वा सयराहं झटिति कृत्वा हस्तमात्रमपसारयेत् पाटयेदिति सण्टङ्कः, अथवा स इति पूर्ववत्, यथेत्युपप्रदर्शने, नामेति सम्भावनायाम्, ए इति वाक्यालङ्कारे, ततश्च स कश्चिदेव तावत् संभाव्यते तुण्णागदारको यस्तरुणादिविशेषण: स्यात् कदाचित् पटसाटिकां पट्टसाटिकां वा गृहीत्वा झटिति हस्तमात्रमपसारयेत् पाटयेदिति तथैव सम्बन्धः । तत्र तरुण: 20 प्रवर्द्धमानवयाः । आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? नैवम्, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात् तस्य चासन्नमृत्युत्वेन विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भः, अन्ये तु वर्णादिगुणोपचितोऽभिनवस्तरुण इति व्याचक्षते । बलं सामर्थ्यं तदस्यास्तीति बलवान् । युगं सुषमदुष्षमादिकाल:, सोऽदुष्टो निरुपद्रवो विशिष्टबलहेतुर्यस्यास्त्यसौ युगवान्, कालोपद्रवोऽपि 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org