________________
४०९ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् विदार्यते, अन्यस्मिन् काले उपरितनस्तन्तुश्छिद्यते अन्यस्मिन् काले आधस्त्य:, तस्मादसौ समयो न भवति। एवं पक्ष्मसूत्रमपि भावनीयम् । नवरं पक्ष्म प्रतीतम्, सङ्घातस्त्वनन्तानां परमाणूनां विशिष्टैकपरिणामयोगः, तेषामनन्तानां
सङ्घातानां संयोगः समुदयः, तेषां समुदयानां याऽन्योन्यानुगतिरसौ समितिः, 5 तासामेकद्रव्यनिर्वृत्तिसमागमेन पक्ष्म उपपद्यते, समयस्य चातोऽपि सूक्ष्मत्वात्, परमाणुव्यतिक्रान्तिलक्षणस्य चानभ्युपगमात्, पक्ष्मविदारणमात्रे समयानन्त्यप्रसङ्गात्, तेषामसङ्ख्येयासूत्सर्पिण्यवसर्पिणीष्वप्यभावाद्, आह- एत्तो णं सुहुमतराए समए पण्णत्ते समणाउसो ! । अत: सङ्घातविदारणकालात् सूक्ष्मतरः लघुतर: समय:
प्रज्ञप्तो भगवता हे श्रमण ! आयुष्मन् ! इति शिष्यामन्त्रणम्। आह10 सङ्घातपरमाणवोऽपि नाऽक्रमेणैव सङ्घातमापद्यन्त इति युक्तिघटित एव
परमाणुव्यतिक्रान्तिलक्षणकाल एकसमय इति, न, पाटकप्रयत्नस्याचिन्त्यशक्तियुक्तत्वाद् द्रागेवानन्त[सङ्घात विसङ्घातोपपत्तेः, तुल्यप्रस्थितानवरतप्रवृत्तगन्त्र(न्तृ)तुल्यकाले इष्टदेशप्राप्त्युपलब्धेः प्रयत्नविशेषसिद्धिरर्हद्वचनाच्च । उक्तं च
आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां, सद्भावप्रतिपत्तये ॥१॥ आगमो ह्याप्तवचनमाप्तं दोषक्षयाद् विदुः । वीतरागोऽनृतं वाक्यं, न ब्रूयात्विसम्भवात् ॥२॥ उपपत्तिर्भवेद युक्तिर्या सद्भावप्रसाधिका ।
सा त्वन्वय-व्यतिरेकलक्षणा सूरिभिः स्मृता ॥३॥ [ 20 इति । निदर्शनं चेहोभयमपि, अलं विस्तरेण, गमनिकामात्रमेतत् । शेषं सूत्रसिद्धं यावत्
हट्ठस्सेत्यादि, हृष्टस्य तुष्टस्य अनवकल्लस्य जरसा अपीडितस्य निरुपक्लिष्टस्य व्याधिना प्राक् साम्प्रतं वाऽनभिभूतस्य जन्तोः मनुष्यादे: एक उच्छ्वासनिश्वास एष: प्राण इत्युच्यते । सत्त पाणूणि सिलोगो निगदसिद्ध एव । उच्छ्वासमानेन मुहूर्तमाह
तिण्णि सहस्सा गाहा । सत्तहिं उस्सासेहिं थोवो । सत्त थोवा य लवे, सत्तथोवेण 25 गुणिता जाया अउणपण्णासं । मुहुत्ते य सत्तहत्तरं लवा भवन्ति, ते अउणपण्णासाए
15
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org