________________
अनुयोगद्वारसूत्रम् [ सू० ३६३-३६७]
४०८ तरुण: प्रवर्द्धमानवया:, आह- दारकः प्रवर्द्धमानवया एव भवति, किं विशेषणेन ? न, आसन्नमृत्योः प्रवर्द्धमानवयस्त्वाभावात्, तस्य चाऽऽसन्नमृत्युत्वादेव विशिष्टसामर्थ्यानुपपत्तेः, विशिष्टसामर्थ्यप्रतिपादनार्थश्चायमारम्भ इति । अन्ये तु वर्णादिगुणोपचितोऽभिन्नवयास्तरुण इति व्याचक्षते । बलं सामर्थ्यम्, तदस्यास्तीति बलवान् । युग: सुषमदुष्षमादिकाल:, स स्वेन भावेन न कालदोषतयाऽस्यास्तीति 5 युगवान्, कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुरिति विशेषणम् । युवा वय:प्राप्त:, दारकाभिधानेऽपि तस्यानेकधाऽवस्थाभेदाद् विशिष्टवयोऽवस्थापरिग्रहार्थमिदमदुष्टमेव । अल्पातङ्कः, आतङ्को रोगः, अल्पशब्दोऽभाववचनः । स्थिराग्रहस्त: सुलेखकवत्, प्रकृतपटपाटनोपयोगित्वाच्च विशेषणाभिधानमस्योपपद्यत एव । दृढपाणि-पादपार्श्व-पृष्ठ्यन्तरोरुपरिणतः, सर्वाङ्गावयवैरुत्तमसंहनन इत्यर्थः । तलयमलयुगल- 10 परिघनिभबाहुः, परिघ: अर्गला, तन्निभबाहुस्तच्छायतदाकारबाहुः, व्यायतबाहुरिति गर्भार्थः । आगन्तुकोपकरणजं सामर्थ्यमाह-चर्मेष्टका-द्रुघन(ण)-मुष्टिसमाहतनिचितकाय इति । औरस्यबलसमन्वागतः आन्तरोत्साहवीर्ययुक्त इत्यर्थः । व्यायामवत्तां दर्शयति- लङ्घन-प्लवन-शीघ्रव्यायामसमर्थः, जै(जइ)नशब्दो शीघ्रवचन: । छेकः प्रयोगज्ञः। दक्षः शीघ्रकारी । प्राप्तार्थ: अधिगतकर्मनिष्ठां गतः, 15 प्राज्ञ इत्यन्ये । कुशल: आलोचितकारी। मेधावी सकृच्छ्रुत-दृष्टकर्मज्ञ: । निपुण: उपायारम्भकः । निपुणशिल्पोगत: सूक्ष्मशिल्पसमन्वितः। स इत्थम्भूत: एकां महतीं पटशाटिकां पट्टशाटिकां वा, श्लक्ष्णतरा पट्टशाटिकेति भेदेनाभिधानम्, गृहीत्वा सयराहमिति सकृद्, झटिति कृत्वेत्यर्थः, हस्तमात्रम् अपसारयेत् पाटयेदित्यर्थः । तत्र चोदकः शिष्य:, प्रज्ञापयतीति प्रज्ञापकः गुरुः, तमेवमुक्तवान्, किम् ? येन 20 कालेन तेन तुन्नवायदारकेण तस्या: पदृशाटिकायाः सकृद् हस्तमात्रम् अपसारितं पाटितमसौ समय इति ? । प्रज्ञापक आह- नायमर्थः समर्थः, नैतदेवमित्युक्तं भवति । कस्मात्? इति पृष्टः उपपत्तिमाह- यस्मात् सङ्ख्येयानां तन्तूनां समुदयसमितिसमागमेनेति पूर्ववत्, पट्टशाटिका निष्पद्यते, तत्र च उवरिल्ले त्ति उपरितने तन्तौ अच्छिन्ने अविदारिते हेट्ठिल्ले त्ति अधस्तनस्तन्तुः न च्छिद्यते न 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org