________________
अनुयोगद्वारसूत्रम् [सू० ३५८-३६२]
,
7
कथं पुनर्लोकः संवर्त्य समचतुरस्रीक्रियते ? उच्यते इह स्वरूपतो लोकस्तावच्चतुर्दशरज्जूच्छ्रितः, अधस्ताद्देशोनसप्तरज्जुविस्तरः, तिर्यग्लोकमध्ये एकरज्जुविस्तृतः, ब्रह्मलोकमध्ये पञ्चरज्जुविस्तीर्णः उपरि तु लोकान्ते एकरज्जुविष्कम्भः, शेषस्थानेषु क्वचित् कोऽप्यनियतो विस्तरः, रज्जुप्रमाणं तु स्वयम्भूरमणसमुद्रस्य पौरस्त्यपाश्चात्यवेदिकान्तं यावद्दक्षिणोत्तरवेदिकान्तं वा यावदवसेयम् । एवं स्थितोऽसौ 5 लोको बुद्धिपरिकल्पनया संवर्त्य घनीक्रियते । तथाहि रज्जुविस्तीर्णायास्त्रसनाडिकाया दक्षिणदिग्वर्त्यधोलोकखण्डमधस्ताद्देशोनरज्जुत्रयविस्तीर्णं क्रमेण हीयमानविस्तरं तदेवोपरिष्टाद्रज्ज्वसङ्ख्येयभागविष्कम्भं सातिरेकसप्तरज्जूच्छ्रितं गृहीत्वा त्रसनाडिकाया एवोत्तरपार्श्वे विपरीतं सङ्घात्यते, अधस्तनं भागमुपरि कृत्वा उपरितनं चाधः समानीय संयोज्यत इत्यर्थः एवं च कृते अधोवर्तिलोकस्यार्द्धं देशोनरज्जुचतुष्टयविस्तीर्णं 10 सातिरेकसप्तरज्जूच्छ्रितं बाहल्यतोऽपि अधः क्वचिद्देशोनसप्तरज्जुमानमन्यत्र त्वनियतबाहल्यं जायते । इदानीमुपरितनलोकार्द्धं संवर्त्यते तत्रापि रज्जुविस्तरायास्त्रसनाडिकाया दक्षिणदिग्वर्तिनी ब्रह्मलोकमध्यादधस्तनमुपरितनं च द्वे अपि खण्डे ब्रह्मलोकमध्ये प्रत्येकं द्विरज्जुविस्तीर्णे उपर्यलोकसमीपे अधस्तु रत्नप्रभाक्षुल्लकप्रतरसमीपे अङ्गुलसहस्रभागविस्तरवती देशोनसार्द्धरज्जुत्रयोच्छ्रिते बुद्ध्या गृहीत्वा तस्या 15 एवोत्तरपार्श्वे पूवोक्तस्वरूपेण वैपरीत्येन सङ्घात्येते, एवं च कृते उपरितनं लोकस्यार्द्धं द्वाभ्यामङ्गुलसहस्रभागाभ्यामधिकं रज्जुत्रयविष्कम्भम् । इह चतुर्णां खण्डानां पर्यन्तेषु चत्वारोऽङ्गुलसहस्रभागा भवन्ति, केवलमेकस्यां दिशि यौ ताभ्यां द्वाभ्यामप्येक एवाङ्गुलसहस्रभागः, एकदिग्वर्तित्वादेव, अपराभ्यामपि द्वाभ्यामित्थमेवेत्यतस्तद्वयाधिकत्वमुक्तं देशोनसप्तरज्जू च्छ्रितम्, बाहल्यतस्तु ब्रह्मलोकमध्ये 20 पञ्चरज्जुबाहल्यमन्यत्र त्वनियतं जायते, इदं च सर्वं गृहीत्वा आधस्त्यसंवर्तितलोकार्द्धस्योत्तरपार्श्वे संघात्यते, एवं च योजिते आधस्त्यखण्डस्योच्छ्रये यदितरोच्छ्रयादधिकं तत् खण्डित्वा उपरितनसङ्घातितखण्डस्य बाहल्ये ऊर्द्धवायतं संघात्यते, एवं च सातिरेकाः पञ्च रज्जव: क्वचिद्बाहल्यं सिद्ध्यति, तथा आधस्त्यखण्डमधस्ताद्यथासम्भवं देशोनसप्तरज्जुबाहल्यं प्रागुक्तम्, अत 25
Jain Education International
For Private & Personal Use Only
-
४०२
www.jainelibrary.org