________________
४०३ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम्
उपरितनखण्डबाहल्याद्देशोनरज्जुद्वयमत्रातिरिच्यत इत्यस्मादतिरिच्यमानबाहल्यादर्द्धं गृहीत्वा उपरितनखण्डबाहल्ये संयोज्यते, एवं च कृते बाहल्यतस्तावत् सर्वमप्येतच्चतुरस्रीकृतनभः खण्डं कियत्यपि प्रदेशे रज्ज्वसङ्ख्येयभागाधिकाः षट् रज्जवो भवन्ति, व्यवहारतस्तु सर्वं सप्तरज्जुबाहल्यमिदमुच्यते, व्यवहारनयो हि किञ्चिन्न्यूनसप्तहस्तादिप्रमाणमपि पटादिवस्तु परिपूर्णसप्तहस्तादिमानं व्यपदिशति, 5 देशतोऽपि च दृष्टं बाहल्यादिधर्मं परिपूर्णेऽपि वस्तुन्यध्यवस्यति, स्थूलदृष्टित्वादिति भाव:, अत एव तन्मतेनैवात्र सप्तरज्जुबाहल्यता सर्वगता द्रष्टव्या, आयाम - विष्कम्भाभ्यां तु प्रत्येकं देशोनसप्तरज्जुप्रमाणमिदं जातम्, व्यवहारतस्त्वत्रापि प्रत्येकं सप्तरज्जुप्रमाणता दृश्या, तदेवं व्यवहारस्यमतेनायाम-विष्कम्भ-बाहल्यैः प्रत्येकं सप्तरज्जुप्रमाणो घनो जात:, एतच्च वैशाखस्थानस्थितपुरुषाकारं सर्वत्र वृत्तस्वरूपं च लोकं संस्थाप्य सर्वं 10 भावनीयम्, सिद्धान्ते च यत्र क्वचिदविशेषितायाः श्रेण्याः सामान्येन ग्रहणं तत्र सर्वत्रस्य घनीकृतलोकस्य सम्बन्धिनी सप्तरज्जुप्रमाणा सा ग्राह्या, तथा प्रतरोऽप्येतावत्प्रमाण व बोद्धव्यः । तदियं सप्तरज्ज्वायामत्वात् प्रमाणागुलतोऽसङ्ख्येययोजनकोटीकोट्यायता एकप्रादेशिकी श्रेणिः । सा च तयैव गुणिता प्रतरः । सोऽपि यथोक्तश्रेण्या गुणतो लोकः। अयमपि सङ्ख्येयेन राशिना गुणितः सङ्ख्येया लोका:, असङ्ख्येयेन तु राशिना 15 समाहतोऽसङ्ख्येया लोकाः, अनन्तैश्च लोकैरलोकः । नन्वङ्गुलादिभिर्जीवाजीवादिवस्तूनि प्रमीयन्त इति तेषां प्रमाणता युक्ता अलोकेन तु न किञ्चित् प्रमीयते इति कथं प्रमाणता ? उच्यते - यद्यपि बाह्यं वस्त्वनेन न प्रमीयते तथापि स्वस्वरूपं तेन प्रमीयत एव, तदभावे तद्विषयबुद्ध्यभावप्रसङ्गात् । तदेवम् अंगुल विहत्थि रयणीत्यादि गाथा व्याख्याता । समाप्तं च क्षेत्रप्रमाणमिति ।
20
[सू० ३६३] से किं तं कालप्पमाणे ? कालप्पमाणे दुविहे पण्णत्ते । तंजहा - पदेसनिप्पण्णे य विभागनिप्पण्णे य ।
[सू० ३६४] से किं तं पदेसनिप्पण्णे ? पदेसनिप्पण्णे एगसमयद्वितीए दुसमयद्वितीए तिसमयद्वितीए जाव असंखेज्जसमयट्टिईए । सेतं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org