________________
४०१ आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति-मल• हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् बाहल्यमस्ति, ततो यदा स्वकीयबाहल्येन युक्तं यथावस्थितमेवेदं चिन्त्यते तदोत्सेधाङ्गुलाच्चतुःशतगुणमेव भवति, यदा त्वर्धतृतीयोत्सेधाङ्गुललक्षणेन बाहल्येन शतचतुष्टयलक्षणं दैर्घ्यं गुण्यते तदा अङ्गुलविष्कम्भा सहस्राङ्गुलदीर्घा प्रमाणाङ्गुलविषया सूचिर्जायते । इदमुक्तं भवति - अर्द्धतृतीयाङ्गुलविष्कम्भे 5. प्रमाणाङ्गुले तिस्रः श्रेणयः कल्प्यन्ते, एका अगुलविष्कम्भा शतचतुष्टयदीर्घा, द्वितीयाऽपि तावन्मानैव, तृतीयाऽपि दैर्येण चतुःशतमानैव विष्कम्भस्त्वर्द्धाङ्गुलम्, ततोऽस्यापि दैर्ध्याच्छतद्वयं गृहीत्वा विष्कम्भोऽङ्गुलप्रमाण : संपद्यते, तथा सत्यङ्गुलशतद्वयदीर्घा अगुलविष्कम्भा इयमपि सिद्धा, ततस्तिसृणामप्येतासामुपर्युपरि व्यवस्थापने उत्सेधाङ्गुलतोऽङ्गुलसहस्रदीर्घा अगुलविष्कम्भा प्रमाणागुलस्य सूचिः 10 सिद्धा भवति, तत इमां सूचिमधिकृत्योत्सेधागुलात् तत् सहस्रगुणमुक्तम्, वस्तुतस्तु चतुः शतगुणमेव, अत एव पृथ्वी - पर्वत - विमानादिमानान्यनेनैव चतुः शतगुणेन अर्द्धतृतीयाङ्गुललक्षणस्वविष्कम्भान्वितेनानीयन्ते, न तु सहस्रगुणया अङ्गुलविष्कम्भया सूच्येति । शेषं भावितार्थं यावत् पुढवीणं ति रत्नप्रभादीनाम्, कंडाणं ति रत्नकाण्डादीनाम्, पातालाणं ति पातालकलशानाम् भवणाणं ति भवनपत्यावासादीनां 15 भवणपत्थडाणं ति भवनप्रस्तटा नरकप्रस्तटान्तरे, तेषाम्, निरयाणं ति नरकावासानाम्, निरयावलियाणं ति नरकावासपङ्क्तीनाम्, निरयपत्थडाणं ति तेरेक्कारस नव सत्त पंच तिन्निय तहेव एक्को य [ बृहत्संग्रहणी० २५३ ] इत्यादिना प्रतिपादितानां नरकप्रस्तटानाम्, शेषं प्रतीतम्, नवरं टंकाणं ति छिन्नटङ्कानाम्, कूडाणं ति रत्नकूटादीनाम्, सेलाणं ति मुण्डपर्वतानाम्, सिहरीणं ति पर्वतानामेव शिखरवताम्, 20 पब्भाराणं ति तेषामेवेषन्नतानाम्, वेलाणं ति जलधिवेलाविषयभूमीनाम्, उद्वेधो भूमिमध्येऽवगाहः, तदेवम् अंगुल विहत्थि रयणीत्यादिगाथोपन्यस्तान्यङ्गुलादीनि योजनावसानानि पदानि व्याख्यातानि ।
साम्प्रतं शेषाणि श्रेण्यादीनि व्याचिख्यासुराह असंखेज्जाओ जोयणकोडाकोडीओ सेढि त्ति अनन्तरनिर्णीतप्रमाणाङ्गुलेन यद्योजनं तेन 25 योजनेनासङ्ख्येया योजनकोटीकोटयः संवर्तितसमचतुरस्रीकृतलोकस्यैका श्रेणिर्भवति ।
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org