________________
चतुर्थ परिशिष्टम्
५२
कालजतिच्छविदोसा समयविरुद्धं च वयणमित्तं च । अत्थावत्तदोसो य होइ असमासदोसो य ॥८८३ || उवमारूवगदोसाऽनिद्देसे पदत्थसंधिदोसो य । एए उ सुत्तदोसा बत्तीसं होंति णायव्वा ॥ ८८४ ॥
[आवश्यकनि० ८८१-८८४]
यथा
-
व्याख्या • तत्र अनृतम् अभूतोद्भावनं भूतनिह्ववश्च, अभूतोद्भावनं 'प्रधानं कारणम्' इत्यादि, भूतनिह्नवः 'नास्त्यात्मे' त्यादि १, उपघातजनकं सत्त्वोपघातजनक्म्, यथा 'वेदविहिता हिंसा धर्माय' इत्यादि २, वर्णक्रमनिर्देशवत् निरर्थकमारादेसादिवत्, आर् आत् एस् इत्येते आदेशाः, एतेषु वर्णानां क्रमनिदर्शनमात्रं विद्यते, न पुनरभिधेयतया कश्चिदर्थः प्रतीयते, इत्येवंभूतं निरर्थकमभिधीयते, डित्थादिवद्वा ३, पौर्वापर्यायोगादप्रतिसम्बन्धार्थमपार्थकम्, तथा 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः त्वर कीटिके। दिशमुदीचीं, स्पर्शनकस्य पिता प्रतिसीन' इत्यादि ४, वचनविघातोऽर्थविकल्पोपपत्त्या छलं वाक्छलादि, यथा नवकम्बलो देवदत्त इत्यादि ५, द्रोहस्वभावं द्रुहिलम्, यथा 'यस्य बुद्धिर्न लिप्येत, हत्वा सर्वमिदं जगत् । आकाशमिव पङ्केन, नासौ पापेन युज्यते ॥१॥' कलुषं वा द्रुहिलम्, येन पुण्यपापयोः समताऽऽपाद्यते, 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचर:' इत्यादि ६, निःसारं परिफल्गु वेदवचनवत् ७, वर्णादिभिरभ्यधिकम् - अधिकम्, ८, तैरेव हीनम् ऊनम् ९, अथवा हेतूदाहरणाधिकमधिकम्, यथाऽनित्यः शब्दः कृतकत्वप्रयत्नानन्तरीयकत्वाभ्यां घटपटवदित्यादि, एताभ्यामेव हीनम् ऊनं यथा अनित्यः शब्दो घटवत्, , अनित्यः शब्दः कृतकत्वादित्यादि ८-९, शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात्, अर्थादापन्नस्य स्वशब्देन पुनर्वचनम् । तत्र शब्दपुनरुक्तम् - इन्द्र इन्द्र इति, अर्थपुनरुक्तम् - इन्द्रः शक्र इति, अर्थादापन्नस्य स्वशब्देन पुनर्वचनम्, यथा- पीनो देवदत्तो दिवा न भुङ्क्ते बलवान् पविन्द्रियश्च, अर्थादापन्नं रात्रौ भुङ्क्त इति, तत्र यो ब्रूयात् - दिवा न भुङ्क्ते रात्रौ भुङ्क्त इति स पुनरुक्तमाह १०, व्याहतं यत्र पूर्वेण परं विहन्यते, यथा - 'कर्म चास्ति फलं चास्ति, कर्ता नास्ति च कर्मणाम्' इत्यादि ११, अयुक्तम् अनुपपत्तिक्षमम्, यथा • तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥ १ ॥ इत्यादि, १२ क्रमभिन्नं यत्र यथासङ्खयमनुदेशो न क्रियते, यथा स्पर्शनरसघ्राणचक्षुः श्रोत्राणामर्थाः स्पर्शरसगन्धवर्णशब्दा इति वक्तव्ये स्पर्शरूपशब्दगन्धरसा इति ब्रूयात् इत्यादि १३, वचनभिन्नं वचनव्यत्ययः यथा वृक्षावेतौ पुष्पिताः इत्यादि १४, • विभक्तिभिन्नं विभक्तिव्यत्यय:, यथैष वृक्ष इति वक्तव्ये एष वृक्षमित्याह १५, लिङ्गभिन्नं लिङ्गव्यत्ययः, यथेयं स्त्रीति वक्तव्येऽयं स्त्रीत्याह १६, अनभिहितम् अनुपदिष्टं स्वसिद्धान्ते, यथा सप्तमः पदार्थो दशमं द्रव्यं
J
वैशेषिकस्य, प्रधानपुरुषाभ्यामभ्यधिकं साङ्ख्यस्य, चतुः सत्यातिरिक्तं शाक्यस्येत्यादि १७, अपदं पद्यविधौ पद्ये विधातव्येऽन्यच्छन्दोऽभिधानं यथाऽऽर्यापदे वैतालीयपदाभिधानम् १८, स्वभावहीनं यद्वस्तुन: स्वभावतोऽन्यथावचनम्, यथा शीतोऽग्निर्मूर्तिमदाकाशमित्यादि १९, व्यवहितम् अन्तर्हितम्, यत्र प्रकृतमुत्सृज्याप्रकृतं व्यासतोऽभिधाय पुनः प्रकृतमभिधीयते, यथा हेतुकथनमधिकृत्य सुप्तिङन्तपदलक्षणप्रपञ्चमर्थशास्त्रं वाऽभिधाय पुनर्हेतुवचनमित्यादि २०, कालदोषः अतीतादिकालव्यत्ययः, यथा रामो वनं प्राविशदिति वक्तव्ये विशतीत्याह २१, यतिदोषः - अस्थानविच्छेदः तदकरणं वा २२, छविः अलङ्कारविशेषस्तेन शून्यमिति २३, समयविरुद्धं च स्वसिद्धान्तविरुद्धं यथा साङ्ख्यस्यासत् कारणे कार्यम्, सद् वैशेषिकस्येत्यादि २४, वचनमात्रं निर्हेतुकं यथेष्टभूदेशे लोकमध्याभिधानवत् २५, अर्थापत्तिदोषः यत्रार्थादनिष्टापत्तिः, यथा ब्राह्मणो न हन्तव्य इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org