________________
चतुर्थ परिशिष्टम्
असम्बद्धमित्यर्थः, यथा शङ्खः कदल्यां कदली च भेर्याम्, अथवा
वंजुलपुप्फुम्मीसा, उंबर वडकुसुममालिया सुरभी । वरतुरगस्स विरायइ, ओलइया अग्गसिंगेसु ॥ निरर्थकं यस्यावयवेष्वर्थो न विद्यते, यथा- डित्थः डवित्थः वाजनः ४ । छलं यथा - अस्त्यात्मा, यद्यस्ति आत्मा तर्हि यद् यदस्ति स स आत्मा प्राप्नोति, नवकम्बलो देवदत्त इत्यादि वा ५ । द्रोहणशीलं डुहिलं यत् पुण्य-पापापलपनादि, यथा- 'एतावानेव लोकोऽयं, यावानिन्द्रियगोचर: ।' इत्यादि ६ । निस्सारं यत्र सार:- अर्थो न विद्यते, यथा- अस्थि- चर्मशिलापृष्ठं वृद्धाः ७ । अधिकं यत् पञ्चानामवयवानामन्यतरेण समधिकम् ८ । ऊनम् एषामन्यतमेन हीनम् ९ । पुनरुक्तं त्रिविधम्- अर्थपुनरुक्तं वचनपुनरुक्तं उभयपुनरुक्तं च । तत्रार्थपुनरुक्तं यथा-इन्द्रः शक्रः पुरन्दर इति, वचनपुनरुक्तं यथा-सैन्धवमानय लवणं सैन्धवमानयेत्यादि, उभयपुनरुक्तं यथा - क्षीरं क्षीरम् १० । व्याहतं यत्र पूर्वमपरेण बाध्यते, यथा
कर्म चास्ति फलं चास्ति, भोक्ता नास्ति च निश्चयः । अयुक्तं यद् बुद्धया विचिन्त्यमानं न युक्तिं
यथा
तेषां कटतटभ्रष्टैर्गजानां मदबिन्दुभिः । प्रावर्त्तत नदी घोरा, हस्त्यश्वरथवाहिनी ॥१२॥२७८॥
क्रमभिन्नं यथा- धरणीधरेन्द्र-चन्द्र- पद्म- सागरान् गम्भीर - नयन- मुख-बल- स्थैर्यगुणैर्जयति १३ । वचनभिन्नं यत्रैकवचनप्रसङ्गे द्विवचनं बहुवचनं वा क्रियते, द्विवचन बहुवचनव्यत्यासो वा १४ । विभक्तिभिन्नं यत्र विभक्तेरन्यथा प्रयोगः १५ । लिङ्गभिन्नं यत्र स्त्रीलिङ्गे पुल्लिङ्गं नपुंसकलिङ्गं वा क्रियते, एवं शेषयोरपि द्रष्टव्यम् १६ । अनभिहितं नाम यत् स्वसमयेऽनुयुक्तमात्मन इच्छया भण्यते १७ । अपदं नाम यत्र गाथापदे गीतिकापदं वानवासिकापदं वा क्रियते १८ । स्वभावहीनं यस्य यो यत्रात्मीयः स्वभावस्तेन तत् शून्यमभिधीयते, यथा-स्थिरो वायुरिति १९ । व्यवहितं नाम यत्र किञ्चिद् निर्द्दिश्याऽन्यद् विस्तरेण वर्णयित्वा पुनस्तत् प्रकृत-मभिधीयते २० ॥ २७९॥ कालदोषो यत्रातीता - ऽनागत- वर्त्तमानकालव्यत्यासकरणम् २१ । यतिः नाम विश्रामस्तस्य दोषो यतिदोष:, यत्र श्लोके गाथायां वृत्ते वा स्वलक्षणप्राप्तः पदच्छेदो न क्रियतेऽस्थाने वा क्रियते, यथा
जयति जईणं पवरो, गुणनिगरो नाणकिरणउज्जोओ। लोईसरो मुणिवरो, सिरिवच्छधरो महावीरो ॥२२॥ छविदोषो नाम यत्र परुषा छविः क्रियते २३ । समयविरुद्धं यथा-वैशेषिको ब्रूते प्रधानं कारणम्, जैनो वदति नास्ति जीवः इत्यादि २४ । वचनमात्रं यथा - कश्चित्कीलकं निहत्य ब्रूयात् - इदं लोकमध्यमित्यादि २५ । अर्थापत्तिदोषो यथा - ब्राह्मणो न हन्तव्यः, अर्थादापन्नं शेषजनो हन्तव्य इति २६ । असमासदोषः यत्र समासे प्राप्ते समासरहितानि पदानि भण्यन्ते २७ ॥ २८० ॥
सहते,
उपमादोषो यथा-काञ्जिकमिव ब्राह्मणस्य सुरा पेया २८ । रूपकदोषो यथा-पर्वतो रूप्यमान आत्मीयैरङ्गैः वर्ण्य २९ । प्रवृत्तिदोष: यत्र सुबहुमप्यर्थं वर्णयित्वा निर्देशं न करोति ३० । पददोषः स्याद्यन्ते तिवाद्यन्तं तिवाद्यन्ते वा स्याद्यन्तं करोति ३१ । सन्धिदोष: यत्र भवन्नपि सन्धिर्न क्रियते विसर्गलोपं वा कृत्वा पुनः सन्धिं करोति ३२ । एते द्वात्रिंशत्सूत्रदोषा भवन्ति ज्ञातव्याः || २८१|| ” इति बृहत्कल्पस्य मलयगिरिसूरिविरचितायां वृत्तौ ।
५१
“अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं । निस्सारमधियमूणं पुणरुतं वाहयमजुत्तं ॥८८१ ॥ कमभिण्णवयणभिण्णं विभत्तिभिन्नं च लिंगभिन्नं च । अणभिहियमपयमेव य सभावहीणं ववहियं च ॥८८२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org