________________
चतुर्थ परिशिष्टम्
जनपदेषु स देशयुतः, स ह्यार्यदेशभणितिं जानाति, ततः सुखेन तस्य समीपे शिष्या अधीयत इति तदुपादानम्। कुलं पैतृकम्, तथा च लोके व्यवहारः - इक्ष्वाकु कुलजोऽयम्, नागकुलजोऽयमित्यादिः, तेन युतः प्रतिपन्नार्थनिर्वाहको भवति । जातिर्मातृकी, तया युतो विनयादिगुणवान् भवति । रूपयुतो लोकानां गुणविषयबहुमानभाग् जायते, यत्राकृतिस्तत्र गुणा वसन्ति इति प्रवादात् । संहननयुतो व्याख्यायां न श्राम्यति । धृतियुतो नातिगहनेष्वर्थेषु भ्रममुपयाति । अनाशंसी श्रोतृभ्यो वस्त्राद्यनाकाङ्क्षी । अविकत्थनः नातिबहुभाषी । [ अमायी न शाठ्येन शिष्यान् वाहयति ।] स्थिरा अतिशयेन निरन्तराभ्यासतः स्थैर्यमापन्ना अनुयोगपरिपाट्यो यस्य स स्थिरपरिपाटिः, तस्य हि सूत्रमर्थो वा न मनागपि गलति । गृहीतवाक्य: उपादेयवचनः, तस्य ह्यल्पमपि वचनं महार्थमिव प्रतिभाति ॥२४१॥ जितपरिषत् न महत्यामपि पर्षदि क्षोभमुपयाति । जितनिद्रः रात्रौ सूत्रमर्थं वा परिभावयन् न निद्रया बाध्यते । मध्यस्थः सर्वेषु शिष्येषु समचित्तः । देशं कालं भावं जानातीति देश-काल- भावज्ञः, स हि देशं कालं भावं च लोकानां ज्ञात्वा सुखेन विहरति, शिष्याणां चाभिप्रायान् ज्ञात्वा तान् सुखेनानुवर्त्तयति । आसन्नलब्धप्रतिभः, परवादिना समाक्षिप्तः शीघ्रमुत्तरदायी । नानाविधानां देशानां भाषा जानातीति नानाविधदेशभाषाज्ञः, स हि नानादेशीयान् शिष्यान् सुखेन शास्त्राणि ग्राहयति ॥ २४२ ॥ पञ्चविध आचार: ज्ञानाचारादिरूपस्तस्मिन् युक्तः उद्युक्तः, स्वयमाचारेष्वस्थितस्यान्यानाचारेषु प्रवर्त्तयितुमशक्यत्वात् । सूत्रा -ऽर्थग्रहणेन चतुर्भी सूचिता - एकस्य सूत्रं नार्थः, द्वितीयस्यार्थो न सूत्रम्, तृतीयस्य सूत्रमप्यर्थोऽपि, चतुर्थस्य न सूत्रं नाप्यर्थः, तत्र तृतीयभङ्गग्रहणार्थं तदुभयग्रहणम्, सूत्रा - ऽर्थ - तदुभयविधीन् जानातीति सूत्रार्थतदुभयविधिज्ञः । आहरणं दृष्टान्तः, हेतुश्चतुर्विधो यापकादिः यथा दशवैकालिकनिर्युक्तौ, यदि वा द्विविधो हेतु :- कारको ज्ञापकश्च, तत्र कारको घटस्य कर्त्ता कुम्भकारः, ज्ञापको यथा- तमसि घटादीनामभिव्यञ्जकः प्रदीप:, उपनयः उपसंहारः, नया: नैगमादयः, एतेषु निपुण आहरण - हेतूपनय- नयनिपुणः, स हि श्रोतारमपेक्ष्य तत्प्रतिपत्त्यनुरोधत: क्वचिद् दृष्टान्तोपन्यासं क्वचिद् हेतूपन्यासं करोति, उपसंहारनिपुणतया सम्यगधिकृतमर्थमुपसंहरति, नयनिपुणतया नयवक्तव्यतावसरे सम्यक्प्रपञ्चं वैविक्त्येन नयानभिधत्ते । ग्राहणाकुशल: प्रतिपादनशक्त्युपेतः ॥२४३॥ स्वसमयं परसमयं वेत्तीति स्वसमय - परसमयवित्, स च परेणाक्षिप्तः सुखेन स्वपक्षं परपक्षं च निर्वहति । गम्भीरः अतुच्छस्वभावः । दीप्तिमान् परवादिनामनुद्धर्षणीयः । शिवः अकोपनः, यदि वा यत्र तत्र वा विहरन् कल्याणकरः । सोमः शान्तदृष्टिः । गुणा: मूलगुणा उत्तरगुणाश्च तेषां शतानि तैः कलितो गुणशतकलितः । युक्तः समीचीनः प्रवचनस्य द्वादशाङ्गस्य सारम् अर्थं कथयितुम् ॥ २४४॥” इति कल्पभाष्यस्य मलयगिरिसूरिविरचितायां वृत्तौ ॥ ५. “अलियमुवघायजणयं, अवत्थग निरत्थयं छलं दुहिलं । निस्सारमहियमूर्ण, पुणरुत्तं वाहयमजुत्तं ॥२७८॥ कमभिन्न वयणभिन्नं, विभत्तिभिन्नं च लिंगभिन्नं च । अणभिहियमपयमेव य, सभावहीणं ववहियं च ॥ २७९ ॥ काल- जइ - च्छविदोसो, समयविरुद्धं च वयणमित्तं च । अत्थावत्तदोसो, हवइ य असमासदोसो उ ॥ २८० ॥ उवमा रूवगदोसो, परप्पवत्ती य संधिदोसो य । एए उ सुत्तदोसा, बत्तीसं हुंति नायव्वा ॥ २८९ ॥
[ कल्पभा० २७८-२८१]
अलीकं द्विविधम्- अभूतोद्भावनं भूतनिह्रवश्च । तत्राभूतोद्भावनं यथा - श्यामाकतन्दुलमात्रो जीव इत्यादि। भूतनिह्नवो यथा-नास्ति जीव इत्यादि १ । उपघातजनकं यत् परस्योपघाते वर्त्तते, यथा- 'न मांसभक्षणे दोष:' [ मनुस्मृति अ० ५ श्लो० ५६ ] इत्यादि २ । अपार्थकं यस्यावयवेष्वर्थो विद्यते न समुदाये,
Jain Education International
५०
For Private & Personal Use Only
www.jainelibrary.org