________________
चतुर्थ परिशिष्टम्
चतुर्थं परिशिष्टम्
मलधारिश्रीहेमचन्द्रसूरिविरचितवृत्ते: टिप्पनानि। [अस्मिन् परिशिष्टे सूत्राङ्कानुसारेण मलधारिश्रीहेमचन्द्रसूरिविरचितवृत्तेर्हस्तलिखितादर्शेषु यानि विशिष्टानि पाठान्तराणि दृश्यन्ते तानि उपन्यस्तानि । तथा उद्धृतपाठानां स्पष्टार्थावबोधार्थं तत्तत्पाठव्याख्या तुलनादिकं चोपन्यस्यते ]
[ हे० २] १. (इत्याधुक्ति-प्रत्युक्ती द्वितीय ?) । तुलना-पृ० १४ पं० २५ ॥
[ हे० ३-५ ] १. दृश्यतां [ हा० ३-५ टि० १ ] ॥ २. “अणुओगो य नियोगो भास विभासा य वत्तियं चेव । अणुओगस्स उ एए नामा एगट्ठिया पंच ॥१३१॥
[आवश्यकनि० १३१] सूत्रस्यार्थेन अनुयोजनमनुयोगः, अथवा अभिधेयो व्यापार: सूत्रस्य योगः, अनुकूलोऽनुरूपो वा योगोऽनुयोगः, यथा घटशब्देन घटोऽभिधीयते, तथा नियतो निश्चितो वा योगो नियोगः, यथा घटशब्देन घट एवोच्यते न पटादिरिति, तथा भाषणात् भाषा, व्यक्तीकरणमित्यर्थः, यथा घटनात् घटः, चेष्टावानर्थो घट इति, विविधा भाषा विभाषा, पर्यायशब्दैः तत्स्वरूपकथनम्, यथा घट: कुटः कुम्भ इति, वार्तिकं त्वशेषपर्यायकथनमिति। शेष सुबोधम, अयं गाथासमदायार्थः, अवयवार्थं त प्रतिद्वारं वक्ष्यति. तत्र प्रवचनादीनामविशेषेणैकार्थिकाभिधानप्रक्रमे सति एकार्थिकानुयोगादेर्भेदेनोपन्यासान्वाख्यानं अर्थगरीयस्त्वख्यापनार्थम्, उक्तं च- सुत्तधरा अत्थधरो इत्यादि ॥१३१॥" - आवश्यकहारि० ।। ३. “सुत्तत्थो खलु पढमो, बीओ निजुत्तिमीसओ भणिओ। तइओ य निरवसेसो एस विही भणिअ अणुओगे
॥२४॥ [आवश्यकनि० २४] सूत्रस्यार्थः सूत्रार्थः एव केवल: प्रतिपाद्यते यस्मिन्ननुयोगे असौ सूत्रार्थ इत्युच्यते, सूत्रार्थमात्रप्रतिपादनप्रधानो वा सूत्रार्थः, खलुशब्दस्त्वेवकारार्थः, स चावधारणे, एतदुक्तं भवति- गुरुणा सूत्रार्थमात्राभिधानलक्षण एव प्रथमोऽनुयोग: कार्य:, मा भूत् प्राथमिकविनेयानां मतिसंमोहः, द्वितीय: अनुयोग: सूत्रस्पर्शिकनियुक्तिमिश्रक: कार्य इत्येवंभूतो भणितो जिनैश्चतुर्दशपूर्वधरैश्च, तृतीयश्च निरवशेषः प्रसक्तानुप्रसक्तमप्युच्यते यस्मिन् स एवंलक्षणो निरवशेषः, कार्य इति, स एष उक्तलक्षणो विधानं विधि: प्रकार इत्यर्थः, भणितः प्रतिपादित: जिनादिभिः, क ? सूत्रस्य निजेन अभिधेयेन सार्धम्, अनुकूलो योगः अनुयोगः, सूत्रव्याख्याख्यानमित्यर्थः, तस्मिन्ननुयोगेऽनुयोगविषय इति, अयं गाथार्थः ॥२४॥” - आवश्यकहारि० ॥ ४. “देस-कुल-जाइ-रूवी, संघइणी धिईजुओ अणासंसी।अविकंथणो अमाई, थिरपरिवाडी गहियवको॥२४१॥ __ जियपरिसो जियनिद्दो, मज्झत्थो देस-काल-भावनू । आसनलद्धपइभो नाणाविहदेसभासन्नू ॥२४२॥ पंचविहे आयारे, जुत्तो सुत्तऽत्थतदुभयविहिन्नू । आहरण-हेउ-उवणय-नयनिउणो गाहणाकुसलो ॥२४३॥ ससमय-परसमयविऊ, गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो, पवयणसारं परिकहेउं ॥२४४॥
कल्पभा० २४१-२४४] युतशब्दः प्रत्येकमभिसम्बध्यते-देशयुत: कुलयुत इत्यादि । तत्र यो मध्यदेशे जातो यो वाऽर्द्धषड्विंशतिषु
Jain Education International
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org