________________
चतुर्थ परिशिष्टम् अर्थादब्राह्मणघातापत्ति: २६, असमासदोष: समासव्यत्यय: यत्र वा समासविधौ सत्यसमासवचनम्, यथा राजपुरुषोऽयमित्यत्र तत्पुरुष समासे कर्त्तव्ये विशेषणसमासकरणं बहुव्रीहिसमासकरणम्, यदिवा असमासकरणं राज्ञः पुरुषोऽयमित्यादि २७, उपमादोषः हीनाधिकोपमानाभिधानं यथा मेरु: सर्षपोपमः सर्षपो मेरुसमो बिन्दुः समुद्रोपम इत्यादि २८, रूपकदोष: स्वरूपावयवव्यत्ययः, यथा पर्वतरूपावयवानां पर्वतेनानभिधानम्, समुद्रावयवानां चाभिधानमित्यादि २९, अनिर्देशदोषः यत्रोद्देश्यपदानामेकवाक्यभावो न क्रियते, यथेह देवदत्त: स्याल्यामोदनं पचतीति वक्तव्ये पचतिशब्दानभिधानम्, ३०, पदार्थदोषः यत्र वस्तुपर्यायवाचिन: पदस्यार्थान्तरपरिकल्पनाऽऽश्रीयते, यथेह द्रव्यपर्यायवाचिनां सत्तादीनां द्रव्यादर्थान्तरपरिकल्पनमुलूकस्य ३१, सन्धिदोष: विश्लिष्टसंहितत्वं व्यत्ययो वेति ३२ । एभिर्विमुक्तं द्वात्रिंशद्दोषरहितं लक्षणयुक्तं सूत्रं तदिति वाक्यशेषः, द्वात्रिंशद्दोषरहितं यच्च इति वचनात्तच्छब्दनिर्देशो गम्यते ।" - आवश्यकहारि० ॥
६.“जाणंतिया अजाणंतिया य तह दुब्वियड्डिया चेव। तिविहा य होइ परिसा तीसे नाणत्तगं वोच्छं॥३६४॥ अथवा त्रिविधा पर्षत्, तद्यथा- जानती अजानती दुर्विदग्धा च। तस्या: त्रिविधाया अपि नानात्वं वक्ष्ये ॥३६४॥ गुण-दोसविसेसन्नू अणभिग्गहिया य कुस्सुइमतेसु । सा खलु जाणगपरिसा, गुणतत्तिल्ला अगुणवज्जा ॥३६५॥
या गुण-दोषविशेषज्ञा कुश्रुतिमत: अपरकुतीर्थिकसिद्धान्तमतैरनभिगृहीता, गाथायां सप्तमी तृतीयार्थे, सा खलु गुणतत्तिल्ला गुणयत्नवती अगुणवर्जा जानती पर्षत् ॥३६५॥ खीरमिव रायहंसा, जे घोटृति उ गुणे गुणसमिद्धा । दोसे वि य छडुंता ते वसभा धीरपुरिस त्ति ॥३६६॥
ये गुणसमृद्धाः विनयादिगुणसमन्विता: क्षीरमिव राजहंसा गुणान् घोटयन्ति आस्वादयन्ति, येऽपि केचनानुपयोगप्रभवा दोषास्तानपि च छर्दयन्ति परित्यजन्ति ते वृषभा: निशीथेन गीतार्था अधिकृतस्याध्ययनस्य योग्या: ॥३६६॥ जे होति पगयमुद्धा, मिगछावग-सीह-कुक्कुडगभूया । रयणमिव असंठविया सुहसण्णप्पा गुणसमिद्धा ॥३६७॥
[कल्पभा० ३६४-३६७] ये प्रकृत्या-स्वभावेन मुग्धा मृग-सिंह-कुक्कुरशावभूता, गाथायां शावशब्दस्यान्यत्रोपनिपात: प्राकृतत्वात्, भूतशब्द औपम्ये, ततोऽयमर्थ:- यथा मृगादिशावा अरण्यादानीय यदि रोचते तर्हि भद्रका: क्रियन्ते अथवा क्रूरा:, एवं ये प्रकृत्या मुग्धाः परतीर्थिकैश्चाभावितास्ते यथा भण्यन्ते तथा कुर्वन्ति । तथा रत्नमिव असंस्थापिता:, यथा रत्नमसंस्थापितं यादृशोऽभिप्रायस्तादृशं घटित्वा क्रियते एवमेतेऽपि यथा रोचते तथा क्रियन्ते । तथा चाह-सुखप्रज्ञापनीया: गुणसमृद्धा: विनयादिगुणनिधयः ॥३६७॥ जा खलु अभाविया कुस्सुतीहिँ न यससमए गहियसारा। अकिलेसकरा सा खलु, वयरं छक्कोडिसुद्धं वा॥३६८॥
[कल्पभा० ३६८] या खलु कुश्रुतिभि: कुसिद्धान्तै: अभाविता न च स्वसमये गृहीतसारा सा खल्वक्लेशकरा अजानती पर्षत् । षट्कोटिशुद्धं वज्रमिव गुणनिधानम् । षट्कोटिशुद्धं नाम यत् स्वभावत: षट्स्वपि दिक्षु शुद्धम् ॥३६८॥ सम्प्रति दुर्विदग्धां पर्षदमाह - किंचिम्मत्तग्गाही , पल्लवगाही य तुरियगाही य । दुवियडगा उ एसा, भणिया परिसा भवे तिविहा ॥३६९॥
[कल्पभा० ३६९ ]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |