________________
तृतीयं परिशिष्टम् च यथोक्तप्रमाणलक्षणोपेतमुर-उदरादि च मडभं तद्वामनं संस्थानम् । यत्र पुनरुर-उदरादि प्रमाणलक्षणोपेतं हस्तपादादिकं च हीनं तत् कुब्जं संस्थानम् । यत्र तु सर्वेऽप्यवयवा: प्रमाणलक्षणपरिभ्रष्टास्तत् हुण्डं संस्थानम् ॥१७५॥
तुलं वित्थडबहुलं, उस्सेहबहुं च मडहकोठं च । हेडिल्लकायमडहं सव्वत्थासंठियं हुंडं ॥१७६॥
व्याख्या - समचतुरस्रं संस्थानं तुल्यं सर्वासु दिक्षु शास्त्रोक्तेन प्रकारेण समप्रमाणम् । न्यग्रोधमण्डलं नाभेरुपरि विस्तृतबहुलं विस्तारबहुलम् । सादिसंस्थानमुत्सेधबहु उत्सेधबहुलं प्रमाणोपपन्नोत्सेधमित्यर्थः । वामनं मडभकोष्ठम्, मडभो न्यूनाधिकप्रमाण: कोष्ठो यत्र तन्मडभकोष्ठं परिपूर्णप्रमाणपाणिपादशिरोग्रीवावयवं न्यूनाधिकप्रमाणकोष्ठं वामनमित्यर्थः । कुब्जमधस्तनकायमडभमधस्तना: पाणिपादशिरोग्रीवादिरूपा अवयवा मडभा यस्य तत्तथा, यत् प्रमाणहीनहस्तपादशिरोग्रीवाद्यवयवं परिपूर्णप्रमाणकोष्ठं तत् कुब्ज-मित्यर्थः । अन्ये तु वामनकुब्जयोर्व्यत्यासेन लक्षणं प्रतिपेदिरे, अधस्तनकायमडभं वामनं मडभकोष्ठं कुब्जमिति । तथा सर्वत्र सर्वेषु शरीरावयवेष्वसंस्थितम्, न शास्त्रोक्तेन प्रमाणेन संस्थितम्, तत् हुण्डं हुण्डसंस्थानमिति ॥” इति श्रीजिनभद्रगणिक्षमाश्रमणविरचिताया: संग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ ॥
[हा० २०६] १. “अन्यतो ङीष्” पा०४।१।४०॥ २. पारं चेह० ॥३. अन्या क्रियेति ह० ॥ ४. आपुच्छणा उ कज्जे पुव्वनिसिद्धेण होइ पडिपुच्छा। पुव्वगहिएण छंदण निमंतणा होअगहिएणं।
[आव.नि.६९७] आप्रच्छनमापृच्छा, सा च कर्तुमभीष्टे कार्ये प्रवर्त्तमानेन गुरोः कार्या-अहमिदं करोमीति । द्वारं ६। तथा पूर्वनिषिद्धेन सता भवतेदं न कार्यमिति, उत्पन्ने च प्रयोजने कर्तुकामेन होति पडिपुच्छत्ति प्रतिपृच्छा कर्त्तव्या भवति, पाठान्तरं वा-पुव्वनिउत्तेण होइ पडिपुच्छा, पूर्वनियुक्तेन सता यथा भवतेदं कार्यमिति तत्कर्तुकामेन गुरोः प्रतिपृच्छा कर्त्तव्या भवति- अहं तत्करोमीति, तत्र हि कदाचिदसौ कार्यान्तरमादिशति समाप्तं वा तेन प्रयोजनमिति । द्वारम् ७ । तथा पूर्वगृहीतेनाशनादिना छन्दना शेषसाधुभ्य: कर्तव्या-इदं मयाऽशनाद्यानीतं यदि कस्यचिदुपयुज्यते ततोऽसाविच्छाकारेण ग्रहणं करोत्विति । द्वारम् ८ । तथा निमन्त्रणा भवत्यगृहीतेनाशनादिना अहं भवतोऽशनाद्यानयामीति गाथार्थः द्वारम् ९ । इदानीमुपसम्पद्वारावयवार्थः प्रतिपाद्यते- सा चोपसम्पद् द्विधा भवति- गहस्थोपसम्पत साधपसम्पच्च। -आ०हारि० प्र० २६७ ॥ [ हा० २०८-२०९] १. जं वत्थुणोऽभिहाणं पज्जयभेदाणुसारि तं नाम ।
पइभेयं जं नमए पइभेयं जाइजंभणियं ॥९४४॥ [विशेषाव०भा० ९४४] यजीवादिवस्तुनोऽभिधानं तद् नामेति संबन्धः । कथंभूतम् ?, इत्याह-पर्याया ज्ञान-दर्शन-चारित्ररूप-रस-गन्ध-स्पर्श-नव-पुराणादयस्तेषां भेदा नानाविधस्वभावास्तांस्तद्वाचकत्वेनाऽनुसरतीति पर्यायभेदानुसारि नामेति । किमुक्तं भवति ? इत्याशङ्कय तात्पर्यमाह- पइभेयमित्यादि, णम प्रह्वत्वे [पा० धा० ९८१] प्रतिपर्यायभेदं यद् नमति याति तत्तद्वाचकत्वेन परिणमति प्रह्वीभवति तद् नामेति यद् भणितं भवति, इत्येतत् तात्पर्यमित्यर्थ इति ॥९४४॥" - विशेषाव० मलधारि० ॥
[ हा० २१७-२२६] १. तुलना- तत्त्वार्थसिद्धसेनीया वृत्ति: ५।२३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org