________________
तृतीयं परिशिष्टम्
[ हा० १६४-१६७ ] १. “घम्मा वंसा सेला, अंजण रिट्ठा मघा य माघवई । पुढवीणं नामाई, रयणाई हुंति गोत्ताई ॥ २३९ ॥
व्याख्या इह यन्निरन्वयमभिधानं तन्नामेत्यभिधीयते, यत् पुनः सान्वयं तद् गोत्रं । तत्र सप्तानामपि पृथिवीनां यथासङ्खयममूनि नामानि तद्यथा - प्रथमा पृथिवी घर्मा १, द्वितीया वंशा २, तृतीया शैला ३, चतुर्थ्यञ्जना ४, पञ्चमी रिष्टा ५, षष्ठी मघा ६, सप्तमी माघवती ७ इति । रत्नादीनि पदैकदेशे पदसमुदायोपचाराद् रत्नप्रभादीनि नामानि गोत्राण्यन्वर्थयुक्तानि तद्यथा रत्नानि वज्रादीनि, प्रभाशब्दोऽत्र सर्वत्रापि रूपवाची, रत्नानि प्रभा रूपं स्वभावो यस्याः सा रत्नप्रभा रत्नस्वभावा रत्नमयी रत्नबहुलेत्यर्थः । एवं शर्कराप्रभादीन्यपि नामानि वाच्यानि ॥” इति श्रीजिनभद्रगणिक्षमाश्रमणविरचितसंग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ ।
-
४५
[ हा० १६८-१७१ ] १. लवणसमुद्दे ह० ॥ २. पुक्खरवरदीवे ह० ॥
३. ‘“उद्धारसागराणं अड्डाइज्जाण जत्तिआ समया । दुगुणा दुगुणपवित्थरदीवोदहि हुंति एवइया ॥८०॥ व्याख्या - अर्ध तृतीयं येषां तान्यर्धतृतीयानि, द्वे अर्धं चेत्यर्थ:, तेषामुद्धारसागरोपमाणां प्राङ्निर्दिष्टस्वरूपाणां यावन्तः समया एतावत्प्रमाणा द्वीपोदधयः । कथंभूता इत्याह- द्विगुणद्विगुणप्रविस्तराः पूर्वस्मात् पूर्वस्मात् द्विगुणो द्विगुणश्च विस्तरो येषां ते तथा । तथा [हि ] - जम्बूद्वीपविस्तारो योजनलक्षम्, इह योजनं प्रमाणाङ्गुलेन वेदितव्यम्, नग- पुढवि - विमाणाइं मिणसु पमाणंगुलेण त्ति वचनप्रामाण्यात् । ततो द्वे लक्षे विष्कम्भो लवणसमुद्रस्य, चत्वारि लक्षाणि धातकीखण्डस्य, अष्टौ कालोदसमुद्रस्य, षोडश पुष्करवरद्वीपस्य, द्वात्रिंशत् पुष्करवरो दसमुद्रस्य । एवं पूर्वस्मात् पूर्वस्मात् द्विगुणद्विगुणविष्कम्भा द्वीपसमुद्रास्तावदवगन्तव्या यावदसङ्खयेययोजनकोटीकोटीप्रमाणात् स्वयम्भूरमणात् द्वीपात् स्वयम्भूरमणः समुद्रो द्विगुणविष्कम्भ इति ॥८०॥” इति जिनभद्रगणिक्षमाश्रमणविरचितायाः संग्रहण्या मलयगिरिसूरिविरचितायां वृत्तौ पृ० ३६ A ॥
[ हा० १८०-१९१] १. 'लोगस्स संखेज्जतिभागे' इति पाठोऽत्र शोभनो भाति ॥
[ हा० २०१-२०२] १. परिसूनं ह० ॥ २. चुलसीतीए सतसहस्सा गुणिता सव्वट्ठाणे ह० ॥ ३. अत्थिणि ह० ॥
Jain Education International
[ हा० २०५] १. समचउरंसे निग्गोहमंडले साइ वामणे खुज्जे ।
हुंडे वि य संठाणा, जीवाणं छ मुणेयव्वा ॥ १७५ ॥
व्याख्या - जीवानां षट् संस्थानानि भवन्ति, तद्यथा - समचतुरस्रम्, न्यग्रोधमण्डलम्, सादि, वामनम्, कुब्जम्, हुण्डमिति । तत्र समाः सामुद्रिकशास्त्रोक्तप्रमाणलक्षणाविसंवादिन्यश्चतस्रोऽम्रयश्चतुर्दिग्विभागोप-लक्षिता: शरीरावयवा यत्र तत् समचतुरस्रं संस्थानम्, समासान्तोऽत्प्रत्ययः । न्यग्रोधवत् परिमण्डलं यस्य तत् न्यग्रोधपरिमण्डलम्, यथा न्यग्रोध उपरि सम्पूर्णप्रमाणोऽधस्तु हीनस्तथा यत् संस्थानं नाभेरुपरि सम्पूर्णप्रमाणमधस्तु न तथा तन्न्यग्रोधपरिमण्डलमित्यर्थः । तथाऽऽदिरिहोत्सेधाख्यो नाभेरधस्तनो देह- भागो गृह्यते, ततः सहादिना नाभेरधस्तनभागेन यथोक्तप्रमाणलक्षणेन वर्तत इति सादि । यद्यपि च सर्वमपि शरीरमादिना सह वर्तते, तथापि सादित्वविशेषणान्यथानुपपत्त्या विशिष्ट एव प्रमाणलक्षणोपपन्न आदिरिह लभ्यते, तत उक्तं यथोक्तप्रमाणलक्षणेनेति । इदमुक्तं भवति- यत् संस्थानं नाभेरधः प्रमाणोपपन्नमुपरि च हीनं तत् सादीति । तथा यत्र शिरोग्रीवं हस्तपादादिकं
For Private & Personal Use Only
www.jainelibrary.org