________________
अनुयोगद्वारसूत्रम् [सू० २६२-३१२]
पूर्वपदार्थप्रधानोऽव्ययीभावः, तत्र ग्रामस्य अनु समीपेन मध्येन वाऽशनिर्गता अनुग्रामम्, एवं नद्या: समीपेन मध्येन वा अनुनदीत्याद्यपि भावनीयम्। सरूपाणामेकशेष एकविभक्तौ [पा० १/२/६४] इत्यनेन सूत्रेण समानरूपाणामेकविभक्तियुक्तानां पदानामेकशेषः समासो भवति, सति समासे एक: शिष्यतेऽन्ये तु लुप्यन्ते, यश्च शेषोऽवतिष्ठते स आत्मार्थे लुप्तस्य लुप्तयोर्लुप्तानां चार्थे वर्तते, अथ एकस्य लुप्तस्यात्मनश्चार्थे वर्तमानात् तस्मात् द्विवचनं भवति, यथा पुरुषश्च पुरुषश्चेति पुरुषौ, द्वयोश्च लुप्तयोरात्मनश्चार्थे वर्तमानाद् बहुवचनम्, यथा पुरुषश्च ३ पुरुषाः, एवं बहूनां लुप्तानामात्मनश्चार्थे वर्तमानादपि बहुवचनं यथा पुरुषश्च ४ पुरुषा इति, जातिविवक्षायां तु सर्वत्रैकवचनमपि भावनीयम् । इतः सूत्रमनुम्रियते - जहा एगो पुरिसो त्ति यथैकः पुरुषः, एकवचनान्त: पुरुषशब्द इत्यर्थ:, एकशेषे समासे सति बह्वर्थवाचक इति शेष:, तहा बहवे पुरिसत्ति तथा बहवः पुरुषाः, बहुवचनान्त: पुरुषशब्द इत्यर्थः, एकशेषे समासे सति 10 बह्वर्थवाचक इति शेषः, यथा चैकशेषे समासे बहुवचनान्त: पुरुषशब्दो बह्वर्थवाचकस्तथैकवचनान्तोऽपीति न कश्चिद्विशेषः । एतदुक्तं भवति- यथा पुरुषश्च ३ इति विधाय एकपुरुषशब्दशेषता क्रियते तदा यथैकवचनान्त: पुरुषशब्दो बहूनर्थान् वक्ति तथा बहुवचनान्तोऽपि, यथा बहुवचनान्तस्तथैकवचनान्तोऽपीति न कश्चिदेकवचनान्तत्वबहुवचनान्तत्वयोर्विशेषः, केवलं जातिविवक्षायामेकवचनं बह्वर्थविवक्षायां तु बहुवचनमिति। 15 एवं कार्षापण - शाल्यादिष्वपि भावनीयम् । अयं च समासो द्वन्द्वविशेष एवेष्यते, केवलमेकशेषताऽत्र विधीयते इत्येतावता पृथगुपात्त इति लक्ष्यते, तत्त्वं तु सकलव्याकरणवेदिनो विदन्तीत्यलमतिविजृम्भितेन । गतं सामासिकम् ।
से किं तं तद्धित इत्यादि । तद्धिताज्जातं तद्धितजम्, इह तद्धितशब्देन तद्धितप्राप्तिहेतुभूतोऽर्थो गृह्यते, ततो यत्रापि तुन्नाए तंतुवाए तद्धितप्रत्ययो न दृश्यते तत्रापि 20 तद्धेतुभूतार्थस्य विद्यमानत्वात्तद्धितजत्वं सिद्धं भवति । कम्मे गाहा पाठसिद्धा, नवरं श्लोकः श्लाघा, संयूथो ग्रन्थरचना, एते च कर्मशिल्पादयोऽर्थास्तद्धितप्रत्ययस्योत्पित्सोर्निमित्तीभवन्तीत्येतद्भेदात्तद्धितजं नामाष्टविधमुच्यत इति भावः ।
Jain Education International
३५१
तत्र कर्मतद्धितजं दोसिए सोत्तिए इत्यादि, दूष्यं पण्यमस्येति दौषिकः, सूत्रं पण्यमस्येति सौत्रिकः, शेषं प्रतीतम्, नवरं भाण्डविचार: कर्मास्येति भाण्डवैचारिकः । 25
For Private & Personal Use Only
5
www.jainelibrary.org