________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३५०
लोकस्थितिवैचित्र्याज्जातमात्रमपि किञ्चिदपत्यं जीवननिमित्तमवकरादिष्वस्यति, तस्य चाऽवकरकः उत्कुरुटक इत्यादि यन्नाम क्रियते तज्जीविकाहेतोः स्थापनानामाख्यायते। सुप्पए त्ति य: सूर्पे कृत्वा त्यज्यते तस्य सूर्पक एव नाम स्थाप्यते । शेषं प्रतीतम्।
से किं तं आभिप्पाइयनामे इत्यादि। इह यत् वृक्षादिषुप्रसिद्धम् अम्बको निम्बक 5 इत्यादिनाम देशरूढया स्वाभिप्रायानुरोधतोगुणनिरपेक्षं पुरुषेषुव्यवस्थाप्यते तदाभिप्रायिकं स्थापनानामेति भावार्थः । तदेतत् स्थापनाप्रमाणनिष्पन्नं सप्तविधं नामेति।
से किं तं दव्वपमाणे इत्यादि। अयमत्र भावार्थ:- धर्मास्तिकायोऽधर्मास्तिकाय इत्यादीनि षड् द्रव्यविषयाणि नामानि, द्रव्यमेव प्रमाणं तेन निष्पन्नानि द्रव्यप्रमाणनामानि,
धर्मास्तिकायादिद्रव्यं विहाय न कदाचिदन्यत्र वर्तन्त इति तद्धेतुकान्युच्यन्त इति तात्पर्यम्। 10 अनादिसिद्धान्तनामत्वेनैवैतानि प्रागुक्तानीति चेत्, उच्यताम्, को दोष: ? अनन्तधर्मात्मके वस्तुनि तत्तद्धर्मापेक्षयाऽनेकव्यपदेशताया अदुष्टत्वात्। एवमन्यत्रापि यथासम्भवं वाच्यमिति।
सेकिंतंभावपमाणे इत्यादि। भावो युक्तार्थत्वादिको गुणः, स एव तद्वारेण वस्तुनः परिच्छिद्यमानत्वात् प्रमाणम्, तेन निष्पन्नं तदाश्रयेण निर्वृत्तं नाम सामासिकादि चतुर्विधं
भवतीत्यत्र परमार्थः। 15 तत्रसे किं तंसामासिए इत्यादि, द्वयोर्बहूनां वापदानांसमसनं संमीलनं समासस्तेन
निर्वृत्तं सामासिकम्, समासाश्च द्वन्द्वादय: सप्त। तत्र समुच्चयप्रधानो द्वन्द्वः, दन्ताश्चौष्ठौ च दन्तोष्ठम्, स्तनौ च उदरं च स्तनोदरमिति, प्राण्यङ्गत्वात् समाहारः, वस्त्र-पात्रमित्यादौ त्वप्राणिजातित्वादश्व-महिषमित्यादौ पुन: शाश्वतिकवैरित्वात्, एवमन्यान्यप्युदाहरणानि .भावनीयानि । अन्यपदार्थप्रधानो बहुव्रीहिः, पुष्पिता: कुटज-कदम्बा यस्मिन् गिरौ 20 सोऽयं गिरिः पुष्पित-कुटजकदम्बः। तत्पुरुष:समानाधिकरण: कर्मधारय: [पा० १।२।४२],
सचधवलश्चासौवृषभश्चधवलवृषभ इत्यादि। सङ्घयापूर्वो द्विगुः [पा० २।१।५२], त्रीणि कटुकानिसमाहृतानि त्रिकटुकम्। एवं त्रीणि मधुराणिसमाहृतानि त्रिमधुरम्, पात्रादिगणे दर्शनादिह पञ्चपूलीत्यादिवत् स्त्रियामीप्रत्ययो न भवति, एवं शेषाण्यप्युदाहरणानि
भावनीयानि । द्वितीयादिविभक्त्यन्तपदानां समासस्तत्पुरुषः, तत्र तीर्थे काक इवास्ते 25 तीर्थकाकः, ध्वाङ्क्षण क्षेपे [ पा० २।११४२ ]इति सप्तमीतत्पुरुषः, शेषं प्रतीतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org