________________
अनुयोगद्वारसूत्रम् [सू० २६२ - ३१२]
तत्करण [ ] इत्यादिना पूर्वं परिभाषितस्वरूपा, सैव प्रमाणम्, तेन हेतुभूतेन नाम
सप्तविधं भवति ।
तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तद्दर्शयति - कृत्तिकासु जात: कार्तिक:, कृत्तिकाभिर्दत्तः कृत्तिकादत्तः, एवं कृत्तिकाधर्मः कृत्तिकाशर्मः कृत्तिकादेवः कृत्तिकादासः कृत्तिकासेनः कृत्तिकारक्षित, एवमन्यान्यपि रोहिण्यादि 5 सप्तविंशतिनक्षत्राण्याश्रित्य नामस्थापना द्रष्टव्या । तत्र सर्वनक्षत्रसङ्ग्रहार्थं कत्तिय - रोहिणीत्यादि गाथात्रयं सुगमम्, नवरमभीचिनक्षत्रेण सह पठ्यमानेषु नक्षत्रेषु कृत्तिकादिरेव क्रम इत्यश्विन्यादिक्रममुत्सृज्येत्थमेव पठितवानिति ।
३४९
-
1
एषां चाष्टाविंशतिनक्षत्राणामधिष्ठातारः क्रमेणाग्न्यादयोऽष्टाविंशतिरेव देवताविशेषा भवन्त्यतः कृत्तिकादिनक्षत्रे जातस्य कश्चिदिच्छादिवशतस्तदधिष्ठातृदेवता एवाश्रित्य नामस्थापनं 10 विधत्त इत्येतद्दर्शनार्थमाह से किं तं देवयाणामे इत्यादि । अग्निदेवतासु जात: आग्निकः, एवमग्निदत्तादीन्यपि । नक्षत्रदेवतानां सङ्ग्रहार्थम् अग्गीत्यादि गाथाद्वयम् । तत्र कृत्तिकानक्षत्रस्याधिष्ठाता अग्निः, रोहिण्या: प्रजापतिः, एवं मृगशिरः प्रभृतीनां क्रमेण सोमो रुद्रः अदिति: बृहस्पतिः सर्पः पितृ भग: अर्यमा सविता त्वष्टा वायुः इन्द्राग्निः मित्रः इन्द्रः निरृति:अम्भ:विश्व: ब्रह्मा विष्णुः वसुः वरुणः अजः विवर्द्धिः, अस्य स्थानेऽन्यत्र अहिर्बुध्नः 15 पठ्यते, पूषा अश्विः यमश्चैवेति ।
से किं तं कुलनामे इत्यादि । यो यस्मिन्नुग्रादिकुले जातस्तस्य तदेवोग्रादिकुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति भावार्थः ।
१४
से किं तं पाडणामे इत्यादि । इह येन यत् पाषण्डमाश्रितं तस्य तन्नाम स्थाप्यमानं पाषण्डस्थापनानामाभिधीयते, तत्र निग्गंथ - सक्क- तावस- गेरुय-आजीव पंचहा समणा 20 [पिण्डनि० गा० ४४५] इति वचनान्निर्ग्रन्थादिपञ्चपाषण्डान्याश्रित्य श्रमण उच्यते, एवं नैयायिकादिपाषण्डमाश्रिताः पाण्डुराङ्गादयो भावनीयाः । नवरं भिक्षुर्बुद्धदर्शनाश्रितः ।
से किं तं गणनामे इत्यादि । इह मल्लादयो गणाः तत्र यो यस्मिन् गणे वर्तते तस्य तन्नाम गणस्थापनानामोच्यते इति मल्ले मल्लदिण्णे इत्यादि ।
से किं तं जीवियाहेतुमित्यादि । इह यस्या जातमात्रमपत्यं म्रियते सा 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org