SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आ. श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३४८ अयमत्राभिप्राय: - यदा स नेपथ्यपुरुषाद्यवयवरूपपरिकरबन्धादिदर्शनद्वारेण भट - महिलापाक - कविशब्दप्रयोगं करोति तदा भटादीन्यपि नामान्यवयवप्रधानतया प्रवृत्तत्वादवयवनामान्युच्यन्त इति इह तदुपन्यास इति । इदं चावयवप्रधानतया प्रवृत्तत्वात् सामान्यरूपतया प्रवृत्ताद् गौणनाम्नो भिद्यत इति ८ । १० ११ से किं तं संजोएणमित्यादि । संयोग: सम्बन्ध:, स चतुर्विधः प्रज्ञप्तः । तद्यथाद्रव्यसंयोग इत्यादि सर्वं सूत्रसिद्धमेव । नवरं सचित्तद्रव्यसंयोगेन गावोऽस्य सन्तीति गोमानित्यादि । अचित्तद्रव्यसंयोगेन छत्रमस्यास्तीति छत्रीत्यादि । मिश्रद्रव्यसंयोगेन हलेन व्यवहरतीति हालिक इत्यादि, अत्र हलादीनामचेतनत्वाद्द्बलीवर्द्दनां तु सचेतनत्वान्मिश्रद्रव्यता भावनीया। क्षेत्रसंयोगाधिकारे भरते जातो भरते वाऽस्य निवास इति तत्र जात: [ पा० ४ | ३ | २५] 10 सोऽस्य निवास: [ पा० ४ | ३ |८९ ] इति वाऽण्प्रत्यये भारतः । एवं शेषेष्वपि भावना कार्या । कालसंयोगाधिकारे सुषमसुषमायां जात इति सप्तमीपञ्चम्यन्ते जनेर्डः [कातन्त्र० ४ । ३ ।९१] इति प्रत्यये सुषमसुषमज:, एवं सुषमजादिष्वपि भावनीयम् । भावसंयोगाधिकारे भावः पर्यायः, स च द्विधा प्रशस्तो ज्ञानादिरप्रशस्तश्च क्रोधादिः । शेषं सुगमम् । इदमपि संयोग प्रधानतया प्रवृत्तत्वाद् गौणाद्भिद्यत इति ९ । से किं तं पमाणेणमित्यादि । अत्रोत्तरं पमाणे चउव्विहे इत्यादि । प्रमीयते परिच्छिद्यते वस्तु निश्चीयतेऽनेनेति प्रमाणं नाम-स्थापना - द्रव्य-भावस्वरूपं चतुर्विधम् । अथ किं तन्नामप्रमाणम् ? नामैव वस्तुपरिच्छेदहेतुत्वात् प्रमाणं नामप्रमाणम्, तेन हेतुभूतेन किं नाम भवतीति प्रश्नाभिप्रायः, एवमन्यत्रापि भावनीयम् । अत्रोत्तरमुच्यते - यस्य जीवस्य वा अजीवस्य वा जीवानां वा अजीवानां वा तदुभयस्य वा तदुभयानां वा 20 यत् प्रमाणमिति नाम क्रियते तन्नामप्रमाणम्, न तत् स्थापना - द्रव्य-भावहेतुकम्, अपि तु नाममात्रविरचनमेव तत्र हेतुरिति तात्पर्यम् । 5 15 अथ किं तत् स्थापनाप्रमाणम् ? स्थापनाप्रमाणं सप्तविधमित्यादि । नक्खत्त गाहा । इदमत्र हृदयम् नक्षत्र देवता-कुल- पाषण्ड - गणादीनि वस्तून्याश्रित्य यत् कस्यचिन्नामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुनः यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च - Jain Education International - - For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy