SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ अनुयोगद्वारसूत्रम् [ सू० २६२-३१२] ३४७ सप्तपर्णाः सप्तच्छदास्तत्प्रधानं वनं सप्तपर्णवनमित्यादि सुगमम् । नवरमत्राप्याह - ननु गुणनिष्पन्नादिदंन भिद्यते, नैवम्, तत्र क्षमादिगुणेन क्षमणादिशब्दवाच्यस्यार्थस्य सामस्त्येन व्याप्तत्वादत्र त्वशोकादिभिरशोकवनादिशब्दवाच्यानां वनानांसामस्त्येन व्याप्तेरभावादिति भेद: ५। से किं तं अणाइसिद्धतेणमित्यादि । अमनम् अन्तो वाच्यवाचकरूपतया 5 परिच्छेदोऽनादिसिद्धश्चासावन्तश्चानादिसिद्धान्तस्तेन, अनादिकालादारभ्येदं वाचकमिदंतु वाच्यमित्येवं सिद्धः प्रतिष्ठितो योऽसावन्त: परिच्छेदस्तेन किमपि नाम भवतीत्यर्थः, तच्च प्राग्व्याख्यातार्थं धर्मास्तिकायादि, एतेषां च नाम्नामभिधेयं धर्मास्तिकायादिवस्तु न कदाचिदन्यथात्वं प्रतिपद्यते, गौणनाम्नस्तु प्रदीपादेरभिधेयं दीपकलिकादि परित्यजत्यपि स्वस्वरूपमित्येतावता गौणनाम्नः पृथगेतदुक्तमिति ६। 10 से किं तं नामेणमित्यादि । नाम पितृपितामहादेर्वाचकमभिधानम्, तेन हेतुभूतेन पुत्रपौत्रादिनामभवति, किंपुनस्तदित्याह - पिउपियामहस्सनामेणं उन्नामियएत्ति, पिता च पितामहश्च तयोः समाहारस्तस्य, अथवा पितुः पितामहः पितृपितामहस्तस्य वाचकेन बन्धुदत्तादिनाम्ना यः पुत्रादिरुन्नामित उत्क्षिप्त: प्रसिद्धिं गत इति यावत् स एव नामतद्वतोरभेदोपचारान्नाम्ना हेतुभूतेन नामोच्यते इत्यर्थः, पित्रादेर्यद् बन्धुदत्तादिनामाऽऽसीत् 15 तत्पुत्रादेरपि तदेव विधीयमानं नाम्ना नामोच्यत इति तात्पर्यम् ७। से किं तं अवयवेणमित्यादि। अवयवोऽवयविन एकदेशस्तेन नाम यथा सिंगी सिंहीत्यादिगाथा,शृङ्गमस्यास्तीति शृङ्गीत्यादीन्यवयवप्रधानानिसर्वाण्यपि सुगमानि, नवरं द्विपदं स्त्र्यादि, चतुष्पदंगवादि, बहुपदंकर्णशृगाल्यादि, अत्रापि पादलक्षणावयवप्रधानता भावनीया । कउहि त्ति ककुदं स्कन्धासन्नोन्नतदेहावयवलक्षणमस्यास्तीति ककुदी 20 वृषभ इति। __परियर गाहा। परिकरबन्धेन विशिष्टनेपथ्यरचनालक्षणेन भटंशूरपुरुषं जानीयात् लक्षयेत् । तथा निवसनेन विशिष्टरचनारचितपरिधानलक्षणेन महिलांस्त्रीम्, जानीयादिति सर्वत्र सम्बध्यते। धान्यद्रोणस्यपाक: स्विन्नतारूपस्तंचतन्मध्याद्गृहीत्वा निरीक्षितेनैकेन सिक्थेनजानीयात्। एकयाचगाथयालालित्यादिकाव्यधर्मोपेतया श्रुतयाकविंजानीयात् 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy