________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३४६
दशवकालिक-सूयगडाद्यध्ययनानि स्वधिया भावनीयानि ३ । निगमयति - सेत्तं आयाणपएणं ति।
सेकिंतं पडिवक्खपएणमित्यादि। विवक्षितवस्तुधर्मस्य विपरीतोधर्मो विपक्ष:, तद्वाचकं पदं विपक्षपदम्, तन्निष्पन्न किञ्चिन्नाम भवति । यथा शृगाली अशिवाऽप्यमाङ्गलिकशब्दपरिहारार्थं शिवाभण्यते। किं सर्वदा ? नेत्याह - नवेसु इत्यादि, तत्र ग्रसते बुद्धयादीन् गुणानिति ग्राम: प्रतीतः । आकरो लोहाद्युत्पत्तिस्थानम् । नगरं कररहितम्।खेटंधूलीमयप्राकारोपेतम्।कर्बर्टकुनगरम्।मडम्बंसर्वतोदूरवर्तिसन्निवेशान्तरम्। द्रोणमुखंजलपथ-स्थलपथोपेतम्। पत्तनंनानादेशागतपण्यस्थानम्।तच्चद्विधा - जलपत्तनं
स्थलपत्तनं च । रत्नभूमिरित्यन्ये । आश्रमः तापसादिस्थानम् । सम्बाधः 10 अतिबहुप्रकारलोकसङ्कीर्णस्थानविशेष:। सन्निवेशोघोषादिः, अथवाग्रामादीनां द्वन्द्वे तेच
ते सन्निवेशाश्चेत्येवं योज्यते। ततस्तेषु ग्रामादिषु नूतनेषु निवेश्यमानेष्वशिवापिसा मङ्गलार्थं शिवेत्युच्यते, अन्यदा त्वनियमः, तथा कोऽपि कदाचित् केनापि कारणवशेनाग्निः शीतो विषंमधुरमित्याद्याचष्टे। तथा कल्पपालगृहेषु किलाम्लशब्दे समुच्चारितेसुरा विनश्यति,
अतोऽनिष्टशब्दपरिहारार्थमम्लंस्वादूच्यते। तदेवमेतानि शिवादीनि विशेषविषयाणि दर्शितानि, 15 साम्प्रतं त्वविशेषतो यानि सर्वदा प्रवर्तन्ते तान्याह -जे लत्तएइत्यादि, यो रक्तोलाक्षारसेन
स एवरश्रुतेर्लश्रुत्या अलक्तक उच्यते। तथा यदेव लाति आदत्ते धरति प्रक्षिप्तं जलादि वस्तु इति निरुक्तेर्लाबु तदेव अलाबु तुम्बकमभिधीयते। य एव चसुम्भकःशुभवर्णकारीस एव कुसुम्भकः। आलवंते त्तिआलपन् अत्यर्थं लपन्नसमञ्जसमिति गम्यते, स किमित्याह - विवलीयभासए त्ति भाषकाद् विपरीतो विपरीतभाषक इति, राजदन्तादिवत् समासः, अभाषक इत्यर्थः, तथाहि - सुबह्वसम्बद्धं प्रलपन्तं कञ्चिद् दृष्ट्वा लोके वक्तारो भवन्ति - अभाषक एवायं द्रष्टव्योऽसारवचनत्वादिति। प्रतिपक्षनामता यथायोगं सर्वत्र भावनीया। ननु च नोगौणादिदंन भिद्यते इतिचेत्, नैतदेवम्, तस्य कुन्तादिप्रवृत्तिनिमित्ताभावमात्रेणैवोक्तत्वात्, अस्य तु प्रतिपक्षधर्मवाचकत्वसापेक्षत्वादिति विशेष:४।
से किं तं पाहण्णयाए इत्यादि।प्रधानस्य भावः प्रधानता, तया किमपि नाम भवति, 25 यथा बहुष्वशोकवृक्षेषु स्तोकेषु त्वाम्रादिपादपेष्वशोकप्रधानं वनमशोकवनमिति नाम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org