________________
अनुयोगद्वारसूत्रम् [सू० २६३ - ३१२]
-
-
[हे० २६३-३१२] अथ दशनामाभिधानार्थमाह से किं तं दसनामे इत्यादि । गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह से किं तं गुण्णे इत्यादि । गुणैर्निष्पन्नं गौणम्, यथार्थमित्यर्थः, तच्चानेकप्रकारम्, तत्र क्षमत इति क्षमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्नम् । तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निर्वृत्तम्। एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् १ ।
से किं तं नोगुणे इत्यादि, गुणनिष्पन्नं यन्न भवति तन्नोगौणम्, अयथार्थमित्यर्थः अकुंते सकुंते इत्यादि, अविद्यमानकुन्ताख्यप्रहरणविशेष एव सकुन्तत्ति पक्षी प्रोच्यत इत्ययथार्थता । एवमविद्यमानमुद्गोऽपि कर्पूराद्याधारविशेषः समुद्रः । अङ्गुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो जलराशि: । अलालंपलालं ति इह प्रकृष्टा लाला यत्र तत् प्रलालं वस्तु प्राकृते पलालमुच्यते, यंत्र तु लालाऽभावस्तत् कथं तृणविशेषरूपं पलालमुच्यत इति 10 प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपं पलालं निर्व्युत्पत्तिकमेवोच्यते इति न यथार्था - ऽयथार्थचिन्ता संभवति । अउलिया सउलिय अत्रापि कुलिकाभिः सह वर्तमानैव प्राकृते सउलियत्ति भण्यते, या तु कुलिकारहितैव पक्षिणी सा कथं सउलियत्ति ? इत्येवमिहापि प्राकृतशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तच्चिन्तासम्भवः ? इत्येवमन्यथाऽप्यविरोधत: सुधिया भावना 15 कार्या । पलं मांसमनश्नन्नपि पलाश इत्यादि तु सुगमम् । नवरं मातृवाहकादयो विकलेन्द्रियजीवविशेषा: । सेत्तं नोगुण्णे त्ति निगमनम् २ |
से किं तं आयाणपरणमित्यादि । आदीयते तत्प्रथमतया उच्चारयितुमारभ्यते शास्त्राद्यनेनेत्यादानम्, तच्च तत्पदं चादानपदम्, शास्त्रस्याध्ययनोद्देशकादेश्चादिपदमित्यर्थः, तेन हेतुभूतेन किमपि नाम भवति, तच्च आवंतीत्यादि, तत्र आवंतीत्याचारस्य पञ्चमाध्ययनम्, 20 तत्र ह्यादावेव आवन्ती केयावन्ती [आचाराङ्ग० १/५/ १ / १४७ ] इत्यालापको विद्यत इत्यादानपदेनैतन्नाम। चाउरंगिज्जं ति एतदुत्तराध्ययनेषु तृतीयमध्ययनम्, तत्र चादौ चत्तारि परमंगाणि दुल्लहाणीह जंतुणो [ ३।१] इत्यादि विद्यते । असंखयं ति इदमपि उत्तराध्ययनेष्वेव चतुर्थमध्ययनम्, तत्र च आदावेव असंखयं जीविय मा पमायए [४।१] इत्येतत् पदमस्ति, ततस्तेनेदं नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वर्तीन्यध्ययनानि कानिचित्तु 25
Jain Education International
३४५
For Private & Personal Use Only
5
www.jainelibrary.org