________________
अनुयोगद्वारसूत्रम् [सू० २६३-३१२]
३४३
गिरिः पुष्पितकुटज-कदम्बः, गिरेविशेष्यत्वादन्यपदार्थप्रधानतेति। तत्पुरुष:समानाधिकरण: कर्मधारयः[पा० १।२।४२],धवलश्चासौवृषभश्च विशेषणं विशेष्येणबहुलम् [पा० २।१।५७] इति तत्पुरुषः, धवलत्वं विशेषणं वृषभेण विशेष्येण सह समस्यते, द्वे पदे एकमर्थं ब्रूत इति समानाधिकरणत्वम्, एवं श्वेतपटादिष्वपि द्रष्टव्यम्, अयं कर्मधारयसंज्ञः।
त्रीणि कटुकानि समाहृतानि तद्धितार्थोत्तरपदसमाहारे च [पा० २।१।५१]तत्पुरुषः 5 त्रिकटुकमित्युत्तरपदार्थप्रधान: संख्यापूर्वो द्विगु: [पा० २।११५२ ] इति द्विगुसंज्ञा, एवं त्रिमधुरादि।
तीर्थे काक इव आस्ते ध्वांक्षेण क्षेपे [पा० २।१/४२] इति तत्पुरुषः समासः, तीर्थकाकः, वनहस्त्यादीनामस्मादेव सूत्रनिबन्धनज्ञापकात् सप्तमीसमासः, पात्रेसमितादिप्रक्षेपाद्वा।
.
10 अनुग्रामम् ग्रामस्य समीपेनाशनिर्गता अनुर्यत्समया [पा० २।१।१५] अनुः यः समयार्थ:समीपार्थः, ग्रामस्य अनुसमीपंद्रव्यमशनिब्रवीति यस्य यस्यसमीपेतेन सुपउत्तरपदेन ग्रामस्य समीपे ग्रामेणोत्तरपदेन अव्ययीभावः समासः, ग्रामस्तूपलक्षणमात्रम् अशनेः, अत: पूर्वपदार्थप्रधानः। अव्ययं विभक्ति-समीप[पा० २।१६] इति सिद्धे विभाषार्थं विभाषाधिकारे पुनर्वचनम्, येषां तु समयाशब्दो मध्यवचनः तेषामप्राप्ते ग्रामस्य मध्येनाशनिर्गता 15 अनुर्यत्समया [पा० २।१।१५] इति समास: अनुग्रामम् । एवमणुणइ आदि। __यथा एकः पुरुषः तथा बहवः पुरुषाः, पुरुष: पुरुष: पुरुष: सरूपाणामेकशेष एकविभक्तौ [पा० १।२।६४] इति समानरूपाणाम् एकविभक्तियुक्तानाम् एकः शेषोभवति, सतिसगासे एक: शिष्यते, अन्येलुप्यन्ते, शेषश्चआत्मार्थेलुप्तस्यलुप्तयो: लुप्तानांचाऽर्थेवर्तते, बहुष्वर्थेषु बहुवचनम्, पुरुष: [४] पुरुषाः। एवं कार्षापणा: । तदेतत् सामासिकम्। 20
सेकिंतंतद्धितए? २, ताद्धितं कर्म-शिल्पादीति, तथाचाह-कम्मे सिप्पसिलोए इत्यादि । कर्मतद्धितनाम दौषिकादि, तत्र दूषा: पण्यमस्य तदस्य पण्यम् [पा० ४।४।५१] तदिति प्रथमा समर्थने, अस्येति षष्ठ्यर्थे, यथाविहितं प्रत्ययः, ठक्, दौषिकः, एवं सूत्रं पण्यमस्य सौत्रिक इत्यादि।
तथा शिल्पतद्धितनामवस्त्रं शिल्पमस्य, तत्र शिल्पम् [पा० ४।४।५५] अस्मिन्नर्थे 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org