SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३४२ से किं तंअणादिसिद्धं [तेणं] ? २, अनादिसिद्धश्चासावन्तश्चेति समासः, अमनम् अन्तः, तथा वाच्य-वाचकतया परिच्छेद इत्यर्थः, तत् किमनादिसिद्धान्तेनाऽनादिपरिच्छेदेनेत्यर्थः। धर्मास्तिकायइत्यादिपूर्ववत्, अनादिसिद्धता चाऽस्यसदैवाभिधेयस्य तदन्यत्वायोगात् अनेनैवचोपाधिनागौणाझेदाभिधानेऽप्यदोष इति। सेकिंतं नामेणं]? २, पितुः पितामहस्य नाम्ना उन्नामितः उत्क्षिप्त: यथा-बन्धुदत्त इत्यादि । से किं तं अवयवेणं ? २, अवयवः शरीरैकदेशः परिगृह्यते, तेन शृंगीत्यादि प्रकटार्थम् । तथा परिकरबन्धेनभटंजानीयात्, महिलांनिवसनेन, सिक्थेन द्रोणपाकम्, कविंचैकया गाथया इति, एतदप्यधिकृतावयवप्रधानमेवेति भावनीयम्, अनेनैवोपाधिना गौणाद् भिन्नमेतदिति।से किंतं संजोएणं? २, संयोगः सम्बन्धः, सचतुर्विधः प्रज्ञप्त: तद्यथा10 द्रव्यसंयोग इत्यादि सूत्र सिद्ध]मेव। नवरं गाव: अस्य सन्तीति गोमान् । छत्रमस्यास्तीति छत्री। हलेन व्यवहरतीति हालिकः,भरते जात:भरते वाऽस्य निवास इति तत्र जातः[पा० ४।३।२५] सोऽस्य निवास: [पा०४।३।८९] इति वा अण् भारत:, एवं शेषेष्वपि द्रष्टव्यम्। सुषमसुषमायां जातः सप्तम्यां जनेर्डः [पा० ३।२।९७ ] सप्तम्यन्ते उपपदे जनेर्डः प्रत्ययः सुषमसुषमजः, एवं शेषमपि।ज्ञानमस्यास्तीति ज्ञानी, एवं शेषमपि।संयोगोपाधिनैवचास्य 15 गौणाभेद इति। से किं तं पमाणे[णं] १२, प्रमाणं चतुर्विधं प्रज्ञप्तम्, तद्यथा-नामप्रमाणमित्यादि। नाम-स्थापनेक्षुण्णार्थे। नवरमिह जीविकाहेतुर्यस्याजातमात्रमपत्यं म्रियतेसारहस्यवैचित्र्यात् तद्जातमेवावकरादिषूज्झति तदेव च तस्य नाम क्रियत इति। आभिप्रायिकंतु गुणनिरपेक्ष यदेव यत्रजनपदेप्रसिद्धंतदेवतत्रसंव्यवहारार्थं क्रियते अम्बकादि, अत एवप्रमाणता।उक्तवद् 20 द्रव्यप्रमाणनाम। से किं तं भावप्पमाणनामे ? २, भावप्रमाणं सामासिकादि, तत्र द्वयोर्बहूनां वा युज्यमानार्थानां समास इत्येषां संज्ञा, उभयप्रधानो द्वन्द्वः इति द्वन्द्वः, दन्तोष्ठम्, तस्य च कोऽर्थः ? इतरेतरयोगः, अस्तिप्रभृतिभिः क्रियाभिः समानकालौ युक्तौ स्तनौ च उदरं च स्तनोदरम् । एवं शेषोदाहरणान्यपि द्रष्टव्यानि। अन्यपदार्थप्रधानो बहुव्रीहिः, पुष्पिता: कुटज-कदम्बा यस्मिन् गिरौ सोऽयं 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001106
Book TitleAgam 45 Chulika 02 Anuyogdwar Sutra Part 01
Original Sutra AuthorAryarakshit
AuthorPunyavijay, Jambuvijay
PublisherMahavir Jain Vidyalay
Publication Year1999
Total Pages540
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, G000, G010, & agam_anuyogdwar
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy