________________
अनुयोगद्वारसूत्रम् [सू० २६३-३१२]
३४१
तद्धितमुच्यते, तद्धितातो अत्थे जाते तद्धितिए । भू सत्तायाम् [पा०धा० १] इत्यादि धातुभावेनार्थो जातः धातुए भन्नति । अभिधाणक्खरा णिच्छितत्थोवलद्धिप्पगारेण उच्चरिज्जमाणा णिरुत्तं, णिरुत्तातो अत्थे जाते णेरुत्तिए। एतं चतुब्विहं पिसभेदंसउदाहरणं जहा सुत्ते तहेव कंठं वत्तव्वं । णामं ति मूलदारं गतं ।
[हा० २६३-३१२] अधुना दशनामोच्यते, तथा चाह - से किं तं दसनामे ? 5 [दशनाम] दशविधं प्रज्ञप्तम्, तद्यथा-गौणं नोगौणमित्यादि। एतेषां प्रश्ननिर्वचनद्वारेण स्वरूपमाह - से किं तं गोण्णे? २, गुणनिप्फण्णं गौणम्, क्षमतीति क्षमण इत्यादि। से किं तं णोगोण्णे ? २, नोगौणम् अयथार्थम् । अकुन्तः सकुन्त इत्यादि । अविद्यमानकुन्ताख्यप्रहरणविशेष एव सकुन्त इत्युच्यते। एवं शेषेष्वपि भावनीयम्। से किं तं आदाणपदेणं ? २, आदानपदेन धर्मो मङ्गलमित्यादि, इहाऽऽदिपदमादानपदमुच्यते। 10 से किंतंपडिपक्खपदेणं?२, प्रतिपक्षपदेन नवेषु प्रत्यग्रेषु ग्रामा-ऽऽकर-नगर-खेटकर्बट-मडम्ब-द्रोणमुख-पत्तना-ऽऽश्रम-सम्बाध-सन्निवेशेषु निवेश्यमानेषुसत्सु अमाङ्गलिकशब्दपरिहारार्थम् अशिवा शिवेत्युच्यते, अन्यदा त्वनियमः । अग्निः शीतलः । विषं मधुरकम् । कल्लालगृहेषु अम्लं स्वादु मृष्टम्, न त्वम्लमेव, सुरासंरक्षणायानिष्टशब्दपरिहारः। इदम् असर्वदा। जोलत्तए इत्यादि, यो रक्तोलाक्षारसेन स 15 एवारक्तः, प्राकृतशैल्या कन् । यदपि च लाबु ला आदाने [पा०धा० १०५८] इति कृत्वा आदानार्थवत् से तदलाबु। यःशुम्भकः शुभवर्णकारी से त्तिअसौ कुसुम्भकः।आलपन् अत्यर्थं लपन्असमञ्जसमिति गम्यते विपरीतभाषक इत्युच्यते, विपरीतश्चासौभाषकश्चेति समासः, अभाषक इत्यर्थः । आह-इदं नोगौणान्न भिद्यते, न, तस्य प्रवृत्तिनिमित्तकुन्ताद्यभावमात्रापेक्षित्वात्, इदंतुप्रतिपक्षधर्माध्यासमपेक्षत इति भिद्यत एव। 20 से किं तं पाहण्णताए ? २, चम्पकप्रधानं वनं चम्पकवनम्, अशोकप्रधानम् अशोकवनमित्यादि, शेषाणिवृक्षाभिधानानि प्रकटार्थानि।आह-इदमपिगौणान्न भिद्यते, न, तत्र तन्निबन्धनभूताया: क्षपणादिक्रियायाः सकलस्वाधारवस्तुव्यापकत्वादशोकादेश्च वनाव्यापकत्वादुपाधिभेदसिद्धेर्भिद्यत इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org