________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविरविवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३३०
कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वेनोक्तेति । असुईत्याद्युदाहरणगाथा । इह कश्चिदुपलब्धशरीराद्यसारतास्वरूप: प्राह - कलि: जघन्य: कालविशेष: कलहो वा, तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलिः शरीरकलि:, तं मूर्छात्यागेन
मुक्तिगमनकाले सर्वथात्यागेन वा धन्याः केचिद्विमुञ्चन्तीति सण्टङ्कः । कथंभूतम् ? 5 अशुचिमलभृतानि निर्झराणीव निर्झराणि श्रोत्रादिविवराणि यस्य तं तथा, सर्वकालमपि स्वभावतो दुर्गन्धम्, तथा बहुमलकलुषमिति। एवं वाचनान्तराण्यपिभावनीयानि।
___ अथ हास्यरसं हेतु-लक्षणाभ्यामाह - रूव गाहा । रूप-वयो-वेष-भाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना निर्वर्तना तत्समुत्पन्नो हास्यो रसो भवतीति
संयोगः । तत्र पुरुषादेर्यो षिदादिरूपकरणं रूपवैपरीत्यम्, तरुणादेर्वृद्धादिभावापादानं 10 वयोवैपरीत्यम्, राजपुत्रादेर्वणिगादिवेषनिर्वर्तनं वेषवैपरीत्यम्, गुर्जरादेस्तु मध्यदेशादि
भाषाभिधानंभाषावैपरीत्यम्।सच कथंभूतः स्यादित्याह- मणप्पहासोत्ति, मन:प्रहर्षकारी प्रकाशो नेत्र-वक्त्रादिविकाशस्वरूपो लिङ्गं यस्य स तथा, अथवा प्रकाशानि प्रकटान्युदरप्रकम्पना-ऽट्टहासादीनि लिङ्गानि यस्येति स तथेति। पासुत्तमसीत्यादिनिदर्शन
गाथा। इह कयाचिद्वध्वा प्रसुप्तोनिजदेवरश्चसूर्यामषीमण्डनेन मण्डितः, प्रबुद्धंचतंसा हसति, 15 तां च हसन्तीमुपलभ्य कश्चित् पार्श्ववर्तिनं कञ्चिदामन्त्र्य प्राह - हीति कन्दर्पातिशयद्योतकं
वच:, पश्यत भोः श्यामा स्त्री यथा हसतीति सम्बन्धः, किं कुर्वती ? देवरं प्रलोकयन्ती, कथंभूतम् ? पासुत्तेत्यादि छिन्नप्ररूढादिवदत्र कर्मधारयः, पूर्वं प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्चस तथा तम्, कथंभूता? स्तनभरकम्पनेनप्रणतंमध्यं
यस्याः सा तथेति। 20 अथ हेतुतो लक्षणतश्चकरुणरसस्वरूपमाह - पियविप्पओयगाहा। प्रियविप्रयोग
बन्ध-वध-व्याधि-विनिपात-सम्भ्रमेभ्यः समुत्पन्न: करुणो रस इति योगः । तत्र विनिपातः सुतादिमरणम्, सम्भ्रमः परचक्रादिभयम्, शेषं प्रतीतम् । किंलक्षण इत्याह - शोचित-विलपित-प्रम्लान-रुदितानि लिङ्गानि लक्षणानि यस्य स तथा। तत्र शोचितं मानसो विकारः, शेषं विदितमिति । पज्झायेत्याधुदाहरणगाथा। अत्र प्रियविप्रयोगदूमितां 25 बालां प्रति वृद्धा काचिदाह - तस्य कस्यचित् प्रियतमस्य वियोगे हे पुत्रिके ! दुर्बलकं ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org