________________
अनुयोगद्वारसूत्रम् [सू० २६२]
३२९ भिउडी गाहा । त्रिवलीतरङ्गितललाटरूपया भ्रकुट्या विडम्बितं विकृतीकृतं मुखं यस्य तत्सम्बोधनं हे भ्रकुटीविडम्बितमुख! संदष्टौष्ठ ! इत इति इतश्च इतश्च रुहिरमोक्किण्ण त्ति विक्षिप्तरुधिर! इत्यर्थः, हंसिव्यापादयसि पशुम्, असुरोदानवस्तन्निभ! तत्सदृश! भीमं रसितं शब्दितं यस्य, तत्संबोधनं हे भीमरसित ! अतिरौद्र अतिशयरौद्राकृते ! रौद्रोऽसि रौद्रपरिणामयुक्तोऽसीति।
5 ___ अथ व्रीडारसं हेतुतो लक्षणतश्चाह - विणओ गाहा । विनयोपचार-गुह्यगुरुदारमर्यादानां व्यतिक्रमः स्थितिलङ्घनं तदुत्पन्नो वीडनको नाम रसो भवति । तत्र विनयार्हाणां विनयोपचारव्यतिक्रमे शिष्टस्य व्रीडा प्रादुरस्ति - पश्यत, मया कथं पूज्यपूजाव्यतिक्रमः कृतः ? इति । तथा गुह्यं रहस्यं तस्य च व्यतिक्रमेऽन्यकथनादिलक्षणे व्रीडारस: आविर्भवति । तथा गुरव: पूज्या: पितृव्य-कलाग्राहकोपाध्यायादयस्तद्दारैश्च 10 सहाब्रह्मसेवादिलक्षणेमर्यादाव्यतिक्रमे कृते लज्जारस:प्रादुर्भवतीति। एवमन्योऽपिद्रष्टव्यः। किंलक्षण इत्याह - लज्जाशङ्कयो: करणंविधानं लिङ्गं यस्यस तथा, तत्र शिरसोऽधोऽवनमन - गात्रसङ्कोचादिकालज्जा, मां न क्वचित् कश्चित् किञ्चिद्भणिष्यतीति सर्वत्राभिशङ्कितत्वं शङ्केति। अत्रोदाहरणं किं लोइय गाहा। इह क्वचिद्देशेऽयं समाचारः, यदुत अभिनववध्वा: स्वभा यत् प्रथमयोन्युरेदे कृते शोणितचर्चितं तन्निवसनम्, ‘अक्षतयोनिरियं न 15 पुनरग्रेऽप्यासेवितानाचारा' इति संज्ञापनार्थं प्रतिगृहं भ्राम्यते, सकलजनसमक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजनः सतीत्वख्यापनार्थं तद्वन्दत इति, एवं व्यवस्थिते सखीपुरतोवधूभणति - किं लोइयकरणीउ त्ति करणिः क्रिया, ततश्च लौकिकक्रियाया लौकिककर्त्तव्यात् सकाशात् किमन्यल्लज्जनीयतरम् ? न किञ्चिदित्यर्थः, इत्यतो लज्जिताऽहं भवामि । किमिति ? यतो वारेज्जो विवाहः, तत्र गुरुजनो वन्दते वहूपोत्तिं ति वधूनिवसनमिति। 20
अथ बीभत्संहेतुतोलक्षणतश्चाह - असुइगाहा। अशुचिमूत्र-पुरीषादिवस्तु, कुणपं शवः, अपरमपि यदुर्दर्शनं गलल्लालादिकरालं शरीरादि, तेषांसंयोगाभ्यासाद् अभीक्ष्णं तद्दर्शनादिरूपात् तद्गन्धाच्च निष्पन्नो बीभत्सो रसो भवतीति सम्बन्धः । किंलक्षण इत्याह - निर्वेदश्चअकारस्य लुप्तस्य दर्शनादविहिंसाचतल्लक्षणंयस्य स तथा। तत्र निर्वेदः उद्वेगः, अविहिंसा जन्तुघातादिनिवृत्तिः, इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्य: 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org