________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३२८
कथंभूतमित्याह - रणन्मणिकिङ्किणीस्वरमाधुर्यान्मधुरम्, तथा विलासै:सकामैश्चेष्टाविशेषैललितंमनोहारि, तथाशब्दोद्दामंकिङ्किणीस्वनमुखरम्, किमिति तत् प्रकटयतीत्याह - यतो हृदयोन्मादनकरं प्रबलस्मरदीपनं यूनामिति । शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस
इति। 5. अद्भुतं स्वरूपतो लक्षणतश्चाह - विम्हय गाहा । कस्मिंश्चिदद्भुते वस्तुनि दृष्टे विस्मयकरो विस्मयोत्कर्षरूपो यो रसो भवति सोऽद्भुतो नामेति सण्टङ्क: । कथंभूतः ? अपूर्वः अननुभूतपूर्वो भूतपूर्वो वाऽनुभूतपूर्वः । किंलक्षण इत्याह - हर्षविषादोत्पत्तिलक्षण:, शुभे वस्तुन्यद्भुते दृष्टे हर्षजननलक्षणः, अशुभे तु विषादजनन
लक्षण इत्यर्थः । उदाहरणमाह - अब्भुयगाहा। इह जीवलोकेऽद्भुततरम् इतो जिनवचनात् 10 किमन्यदस्ति? नास्तीत्यर्थः । कुत इत्याह - यद्यस्माज्जिनवचनेनार्था:जीवादय: सूक्ष्मव्यवहित-तिरोहिता-ऽतीन्द्रिया-ऽमूर्त्तादिस्वरूपा:अतीता-ऽनागत-वर्तमानरूपत्रिकालयुक्ता अपि ज्ञायन्त इति।
अथरौद्रं हेतुतोलक्षणतश्चाह - भयगाहा। रूपंशत्रु-पिशाचादीनाम्,शब्दस्तेषामेव, अन्धकारं बहलतमोनिकुरुम्बरूपम्, उपलक्षणत्वादरण्यादयश्च पदार्था इह गृह्यन्ते, तेषां 15 भयजनकानां रूपादिपदार्थानां येयं चिन्ता तत्स्वरूपपर्यालोचनरूपा, कथा
तत्स्वरूपभणनलक्षणा, तथोपलक्षणत्वा दर्शनादिचगृह्यते, तेभ्य:समुत्पन्नोजातोरौद्रो रस इति योगः। किंलक्षण इत्याह - संमोहः किंकर्तव्यत्वमूढता, सम्भ्रमो व्याकुलत्वम्, विषादः किमहमत्र प्रदेशे समायात इत्यादिखेदस्वरूपः, मरणं भयोद्धान्त
गजसुकुमालहन्तुसोमिलद्विजस्येव प्राणत्यागः, तानि लिङ्गंलक्षणं यस्य स तथा। आह - 20 ननु भयजनकरूपादिभ्यः समुत्पन्न: संमोहादिलिङ्गश्च भयानक एव भवति, कथमस्य
रौद्रत्वम् ? सत्यम्, किन्तु पिशाचादिरौद्रवस्तुभ्यो जातत्वाद् रौद्रत्वमस्य विवक्षितमित्यदोषः। तथाशत्रुजनादिदर्शने तच्छिर:कर्त्तनादिप्रवृत्तानां पशु-शूकर-कुरङ्गवधादिप्रवृत्तानांच यो रौद्राध्यवसायात्मको भ्रकुटीभङ्गादिलिङ्गो रौद्रो रस: सोऽप्युपलक्षणत्वादत्रैव द्रष्टव्यः,
अन्यथा स निरास्पद एव स्यात्, अत एव रौद्रपरिणामवत्पुरुषचेष्टाप्रतिपादकमेवोदाहरणं 25 दर्शयिष्यति, भीतचेष्टाप्रतिपादकं तु तत् स्वत एवाभ्यूह्यमित्यलं प्रपञ्चेन। उदाहरणमाह -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org