________________
अनुयोगद्वारसूत्रम् [सू० २६२]
३२७
सङ्ग्रामादिवस्तुदर्शनादिप्रभवोभयानकोरस: पठ्यतेअन्यत्र,सचेहरौद्ररसान्तर्भावविवक्षणात् पृथग् नोक्त: ५ । शुक्रशोणितोच्चारप्रश्रवणाद्यनिष्टमुद्वेजनीयं वस्तु बीभत्समुच्यते, तदर्शनश्रवणादिप्रभवो जुगुप्साप्रकर्षस्वरूपोरसोऽपि बीभत्स:६। विकृता-ऽसम्बद्धपरवचनवेषा-ऽलङ्कारादिहास्यार्हपदार्थप्रभवो मन:प्रहर्षादिचेष्टात्मको रसोऽपि हास्यः७। कुत्सितं रौत्यनेनेति निरुक्तवशात् करुणः, करुणास्पदत्वात् करुणः, प्रियविप्रयोगादिदुःखहेतुसमुत्थः 5 शोकप्रकर्षस्वरूप:करुणोरस इत्यर्थ:८। प्रशाम्यतिक्रोधादिजनितौत्सुक्यरहितोभवत्यनेनेति प्रशान्तः, परमगुरुवचःश्रवणादिहेतुसमुल्लसित उपशमप्रकर्षात्मा प्रशान्तो रस इत्यलं विस्तरेण ९। ___एतानेव लक्षणादिद्वारेण बिभणिषुर्वीररसं तावल्लक्षणतो निरूपयन्नाह - तत्थ परिचागम्मि य गाहा। तत्र तेषु नवसु रसेसु मध्ये परित्यागे दाने तपश्चरणे तपोविधाने 10 शत्रुजनविनाशे च यथासङ्ख्यमननुशय-धृति-पराक्रमचिह्नो वीरो रसो भवति । इदमुक्तं भवति - दाने दत्ते यदाऽनुशयो गर्व: पश्चात्तापो वा तं न करोति, तपसि च कृते धृतिं करोति नार्तध्यानम्, शत्रुविनाशेचपराक्रमते, नतुवैक्लव्यमवलम्बते, तदा एतैर्लिङ्गैर्ज्ञायतेऽयं प्राणी वीररसे वर्तते, इत्येवमन्यत्रापि भावना कार्येति। उदाहरणनिदर्शनार्थमाह - वीरोरसो यथेत्युपदर्शनार्थमेतत् । सो नाम गाहा पाठसिद्धा। नवरं वीररसवत्पुरुषचेष्टितप्रतिपादना- 15 देवंप्रकारेषु काव्येषु वीररस: प्रतिपत्तव्य इति भावार्थः । अपरं चेहोत्तमपुरुषजेतव्यकामक्रोधादिभावशत्रुजयेनैववीररसोदाहरणंमोक्षाधिकारिणिप्रस्तुतशास्त्रेइतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तव्यमिति। एवमन्यत्रापिभावार्थोऽवगन्तव्य इति।
शृङ्गाररसं लक्षणत: प्राह - सिंगारो गाहा। शृङ्गारो नाम रसः । किंविशिष्ट इत्याह - रतीत्यादि, रतिशब्देनेह रतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते, तैः सार्धं 20 संयोगाभिलाषसंजनकः, तस्य तत्कार्यत्वादेव । तथा मण्डन-विलास-विब्बोकहास्य-लीला-रमणानि लिङ्गं यस्य स तथा, तत्र मण्डनं कटकादिभिः, विलासः कामगर्भो रम्यो नयनादिविभ्रमः, विब्बोय त्ति देशीपदम् अङ्गजविकारार्थे, हास्यं प्रतीतम्, लीला सकामगमन-भाषितादिरमणीयचेष्टा, रमणं क्रीडनमिति । उदाहरणमाह - सिंगारो इत्यादि । महुर गाहा । श्यामा स्त्री मेखलादाम रसनासूत्रं दर्शयति प्रकटयतीत्यर्थः, 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org