________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३२६
गाथाभ्यः उक्तलक्षणाभ्य: मुणितव्याः ज्ञातव्याः भवन्ति शुद्धा वा मिश्रा वा। शुद्ध इति कश्चिद्गाथासूत्रबन्धःअन्यतमरसेनैवशुद्धेन प्रतिबद्धः, कश्चिद् मिश्रः द्विकादिसंयोगेनेति गाथार्थः । उक्तं नवनाम।
[हे० २६२] अथ नवनाम निर्दिशन्नाह -से किंतं नवनामे इत्यादि। नवनाम्निनव 5 काव्यरसा: प्रज्ञप्ताः। तत्र कवेरभिप्राय: काव्यम्। रस्यन्ते अन्तरात्मनाऽनुभूयन्त इति रसा:, तत्तत्सहकारिकारणसन्निधानोद्भूताश्चेतोविकारविशेषा इत्यर्थः। उक्तंच -
बाह्यार्थालम्बनो यस्तु विकारो मानसो भवेत्।
स भावः कथ्यते सद्भिस्तस्योत्कर्षो रसः स्मृतः॥१॥[ ]
काव्येषूपनिबद्धा रसा: काव्यरसा: वीर-शृङ्गारादयः । तानेवाह - वीरो सिंगारो 10 इत्यादिगाथासुगमा। नवरं शूरवीर विक्रान्तौ [का० धा० ९/२१५] इति, वीरयति विक्रामयति
त्याग-तपो-वैरिनिग्रहेषु प्रेरयति प्राणिनमित्युत्तमप्रकृतिपुरुषचरितश्रवणादिहेतुसमुद्भूतो दानाद्युत्साहप्रकर्षात्मको वीर:, रस इति सर्वत्र गम्यते १ । शृङ्गं सर्वरसेभ्य: परमप्रकर्षकोटिलक्षणमियर्ति गच्छतीति कमनीयकामिनीदर्शनादिसम्भवो रतिप्रकर्षात्मकः शृङ्गारः, सर्वरसप्रधान इत्यर्थः, अत एव
शृङ्गार-हास्य-करुणा रौद्र-वीर-भयानकाः।
बीभत्सा-ऽद्भुत-शान्ताश्च नव नाटये रसा: स्मृताः॥१॥[ ] इत्यादिष्वयंसर्वरसानामादावेव पठ्यते, अत्र तुत्याग-तपोगुणौ वीररसेवर्तेते, त्याग-तपसी च त्यागो गुणो गुणशतादधिको मतो मे [ ]परं लोकातिगंधाम तपः श्रुतमिति द्वयम्
इत्यादिवचनात्समस्तगुणप्रधाने इत्यनया विवक्षया वीररसस्यादावुपन्यास 20 इति २ । श्रुतं शिल्पं त्याग-तपः-शौर्यकर्मादि वा सकलभुवनातिशायि किमप्यपूर्व
वस्त्वद्भुतमुच्यते, तद्दर्शन-श्रवणादिभ्योजातोरसोऽप्युपचाराद्विस्मयरूपोऽद्भुत: ३। रोदयति अतिदारुणतया अश्रूणि मोचयतीति रौद्रं रिपुजन-महारण्या-ऽन्धकारादि, तद्दर्शनाद्युद्भवो विकृताध्यवसायरूपो रसोऽपि रौद्रः ४ । व्रीडयति लज्जामुत्पादयतीति लज्जनीयवस्तुदर्शनादिप्रभवो मनोव्यलीकतादिस्वरूपो वीडनकः, अस्य स्थाने भयजनक -
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org