________________
अनुयोगद्वारसूत्रम् [सू० २६२]
३२५
तत्र गुरुजनो परिवन्दते यवधूपोत्तिं वधूनिवसनमिति गाथार्थः।
बीभत्सरसलक्षणमाह- असुइ० गाहा । अशुचिकुणपदुर्दर्शन-संयोगाभ्यासगन्धनिष्पन्न:, कारणाशुचित्वादशुचिशरीरं तदेव प्रतिक्षणमासन्नकुणपभावात्कुणपं तदेव च विकृतप्रदेशत्वाद् दुर्दर्शनं तेन संयोगाभ्यासात् तद्गन्धोपलब्धेर्वा समुत्पद्यत इति निर्वेदा-ऽविहिंसालक्षणो रसोभवति बीभत्स इति गाथार्थः । उदाहरणमाह-बीभत्सो 5 रसो यथा-असुइगाहा सूत्रसिद्धा।
हास्यरसलक्षणाभिधित्सयाऽऽह-रूववय गाहा । रूप-वयो-वेष-भाषाविपरीतविडम्बनासमुत्पन्नो हास्यो मनःप्रहर्षकारी प्रकाशलिंगः प्रत्यक्षलिंगो रसो भवतीति गाथार्थ: । उदाहरणमाह - हास्यो रसो यथा-पासुत्तमसी० गाहा । प्रकटार्था ।
__ करुणरसलक्षणमाह- पियविप्पओग० गाहा । प्रियविप्रयोग-बन्ध-वध- 10 व्याधि-निपातसम्भ्रमोत्पन्न:शोचित-विलपित-प्रम्लान-रुदितलिंगोरस: करुणः । तत्र शोचितं मानसो विकारः, शेषं प्रकटार्थमिति गाथार्थः । उदाहरणमाह - करुणो रसो यथा-पज्झाय गाहा । प्रध्यातेन अतिचिन्तया क्लान्तं बाष्पागतप्रप्लुताक्षम् स्यन्दमानाश्रव्याप्तलोचनमिति भावः। शेषं सूत्रसिद्धमिति गाथार्थः।
प्रशान्तरसलक्षणमाह - निद्दोसगाहा, निर्दोषमन:समाधानसम्भव: हिंसादिदोष- 15 रहितस्य इन्द्रियविषयविनिवृत्त्या स्वस्थमनसो य: प्रशान्तभावेन क्रोधादि-त्यागेन अविकारलक्षण: हास्यादिविकारवर्जित: असौ रसः प्रशान्तो ज्ञातव्य इति गाथार्थः । उदाहरणमाह - प्रशान्तोरसोयथा-सब्भाव० गाहा।सद्भावनिर्विकारंपरमार्थनिर्विकारम्, न मातृस्थानतः । उपशान्त-प्रशान्त-सौम्यदृष्टि, उपशान्ता इन्द्रियदोषत्यागेन, प्रशान्ता क्रोधादित्यागतः, अनेनोभयेन सौम्या दृष्टिर्यस्मिन् तत्तथा । हीत्यव्ययं मुने: 20 प्रशान्तभावातिशयप्रदर्शने, यथा मुनेः शोभते मुखकमलंपीवरश्रीकंप्रधानलक्ष्मीकमिति गाथार्थः।
एतेणवगाहा। एतेनवकाव्यरसा: अनन्तरोदिता: द्वात्रिंशद्दोषविधिसमुत्पन्नाः अनृतादिद्वात्रिंशत्सूत्रदोष-तपोविधिसमुद्भवा इत्यर्थः। तथाहि-वीरोरसोसङ्ग्रामादिषु हिंसया भवति, तपः-संयमकरणादावपिभवति, एवं शेषेष्वपि यथासम्भवंभावना कार्या। तथा चाह- 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org