________________
अनुयोगद्वारसूत्रम् [सू० २६२]
३३१
मुखं जातम् कथंभूतम्, ? पज्झायकिलामितयंति, प्रध्यातं प्रियजनविषयमतिचिन्तितं तेन क्लान्तम्। बाहागयपप्पुतच्छयंति, बाष्पस्यागतम्आगमनं तेन प्रप्लुते व्याप्ते अक्षिणी यत्र तत्तथा, बहुश: अभीक्ष्णमिति।
__ अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरति - निद्दोस गाहा। निर्दोषं हिंसादिदोषरहितं यन्मनस्तस्य यत् समाधानं विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात् सम्भवो 5 यस्य स तथा। प्रशान्तभावेन क्रोधादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना।सचाविकारलक्षणो निर्विकारताचिह्न इत्यर्थः। सब्भावेत्याधुदाहरणगाथा। प्रशान्तवदनं कञ्चित् साधुमवलोक्य कश्चित् समीपस्थितंकञ्चिदाश्रित्य प्राह - हीति प्रशान्तभावातिशयद्योतकः, पश्य भोः ! यथा मुनेर्मुखकमलं शोभते, कथंभूतम् ? सद्भावतो न मातृस्थानतो निर्विकारं विभूषा-भ्रूक्षेपादिविकाररहितम्, उपशान्ता 10 रूपालोकनाद्यौत्सुक्यत्यागत: प्रशान्ता क्रोधादिदोषपरिहारतोऽत एव सौम्या दृष्टिर्यत्र तत्तथा। अस्मादेव चपीवरश्रीकम् उपचितोपशमलक्ष्मीकमिति।
साम्प्रतं नवानामपि रसानां संक्षेपत: स्वरूपं कथयन्नुपसंहरन्नाह - एए नव गाहा। एते नव काव्यरसा: अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव मुणितव्या ज्ञातव्याः । कथंभूता: ? अलियमुवघायजणयं निरत्थयमवत्थयं छलं दुहिलं [आवश्यकनि०८८१- 15 ८८४, कल्पभा० २७८-२८१] इत्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत् सूत्रदोषास्तेषां विधि: विरचनं तस्मात् समुत्पन्ना:, इदमुक्तं भवति - अलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिद् सो निष्पद्यते, यथा -
तेषां कटतटभ्रष्टैर्गजानांमदबिन्दुभिः।
प्रावर्तत नदी घोरा हस्त्यश्व-रथवाहिनी॥१॥[ ] इत्येवंप्रकारसूत्रमलीकतादोषदुष्टम्, रसश्चायमद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषेणाद्भुतो रसो निष्पन्नः । तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निर्वर्त्यते, यथा -
स एव प्राणिति प्राणी प्रीतेन कुपितेन च।।
वितैर्विपक्षरक्तैश्च प्रीणिता येन मार्गणाः॥१॥[ ] इत्यादिप्रकारंसूत्रं परोपघातलक्षणदोषदुष्टम्, वीररसश्चायम्, ततोऽनेनोपघातलक्षणेन सूत्रदोषेण 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org