________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३१८
[हे० २६१] अथाष्टनाम प्रतिपादयन्नाह - से किं तं अट्ठनामे इत्यादि । उच्यन्त इति वचनानि वस्तुवाचीनि, विभज्यते प्रकटीक्रियते अर्थोऽनयेति विभक्तिः, वचनानां विभक्तिर्वचनविभक्तिः, नाख्यातविभक्तिः, अपि तु नामविभक्तिः प्रथमादिकेति भावः । सा चाष्टविधा तीर्थकर-गणधरैः प्रज्ञप्ता। का पुनरियमित्याशङ्कय यस्मिन्नर्थे या विधीयते तत्सहितामष्टविधामपि विभक्तिं दर्शयितुमाह - तद्यथेत्यादि । निद्देसे इत्यादि श्लोकद्वयं निगदसिद्धम् । नवरं लिङ्गार्थमात्रप्रतिपादनं निर्देशः, तत्र सि औ जसिति प्रथमा विभक्तिर्भवति । अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनमुपदेशः, तस्मिन् अम् औ शस् इति द्वितीया विभक्तिर्भवति । उपलक्षणमात्रं चेदम्, कटं करोतीत्यादिषूपदेशमन्तरेणापि
द्वितीयाविधानात्, एवमन्यत्रापि यथासम्भवं वाच्यम्। विवक्षितक्रियासाधकतमं करणम्, 10 तस्मिंस्तृतीया कृता विहिता । सम्प्रदीयते यस्मै तद् गवादिदानविषयभूतं सम्प्रदानम्,
तस्मिँश्चतुर्थी विहिता।अपादीयते वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानम्, तत्र पञ्चमी विहिता । स्वम् आत्मीयं सचित्तादि, स्वामी राजादिः, तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः । संनिधीयते आधीयते यस्मिँस्तत् सन्निधानम् आधार
स्तदेवार्थः, तस्मिन् सप्तमी विहिता । अष्टमी सम्बुद्धि: आमन्त्रणी भवेत्, आमन्त्रणेऽर्थे 15 विधीयत इत्यर्थः।
एनमेवार्थंसोदाहरणमाह - तत्थ पढमेत्यादिगाथाश्चतस्रोगतार्था एव। नवरं प्रथमा विभक्तिनिर्देशे, क्व यथेत्याह - सोत्ति सः, तथा इमो त्ति अयम्, अहं ति अहम्, वाशब्द उदाहरणान्तरतासूचकः । उपदेशे द्वितीया, क्व यथेत्याह - भण कुरु वा, किं तदित्याह -
इदं प्रत्यक्षं तद्वा परोक्षमिति । तृतीया करणे, क्व यथेत्याह - भणितं वा कृतं वा, 20 केनेत्याह - तेन वामया वेति, अत्र यद्यपि कर्तरि तृतीया प्रतीयते तथापि विवक्षाधीनत्वात्
कारकप्रवृत्तेस्तेन मया वा कृत्वाभणितं कृतं वा देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि न दुष्यतीति लक्षयामः, तत्त्वं तु बहुश्रुता विदन्तीति । हंदि नमो साहाए इत्यादि, हन्दीत्युपदर्शने, 'नमो देवेभ्यः, स्वाहा अग्नये' इत्यादिषु सम्प्रदाने चतुर्थी भवतीत्येके ।
अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति । अपनय गृहाण 25 एतस्मादितो वेत्येवमपादाने पञ्चमी । तस्यास्य गतस्य वा, कस्य ? भृत्यादेरिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org