________________
आ. श्रीजिनदासगणिविरचितचूर्णि हरिभद्रसूरिविर० विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् ३१४
आकारानाह - आइ गाहा । त्रयो गीतस्याकाराः स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते सम्बन्धः, किं कुर्वाणा इत्याह आरभन्त त्ति आरम्भमाणा गीतमिति गम्यते, कथंभूतमित्याह - आइमउ ति आदौ प्रथमतो मृदु कोमलं आदिमृदु, तथा समुद्वहन्तश्च कुर्वन्तश्च महत्तां गीतध्वनेरिति गम्यते, मध्यकारे मध्यमभागे तथा अवसाने च क्षपयन्तो 5 गीतध्वनिं मन्द्रीकुर्वन्त इत्यर्थः, आदौ मृदु मध्ये तारं पर्यन्ते मन्द्रं गीतं कर्तव्यम्, अत एते मृदुतादयस्त्रयो गीतस्याकारा भवन्तीति तात्पर्यम् ।
किन्तु षड् दोषा वर्जनीयाः, तानाह - भीतं गाहा । भीतमुत्त्रस्तमानसं यद् गीयते इत्येको दोषः १, द्रुतं त्वरितम् २, उप्पिच्छं श्वासयुक्तं त्वरितं च, पाठान्तरेण रहस्सं ति ह्रस्वस्वरम्, लघुशब्दमित्यर्थः ३, उत्तालम् उत् प्राबल्यार्थे, अतितालमस्थानतालं चेत्यर्थः, 10 तालस्तु कंसिकादिशब्दविशेष: ४, काकस्वरं लक्ष्णा - ऽश्रव्यस्वरम् ५, अनुनासं नासिकाकृतस्वरम् ६ । एते षड् दोषा गीतस्य भवन्ति ।
अष्टौ गुणानाह - पुण्णं गाहा । स्वरकलाभिः सर्वाभिरपि युक्तं कुर्वतः पूर्णम् १, गेयरागेण रक्तस्य भावितस्य रक्तम् २, अन्यान्यस्फुटशुभस्वरविशेषाणां करणादलङ्कृतम् ३, अक्षरस्वरस्फुटकरणाद् व्यक्तम् ४, विक्रोशनमिव यद् विस्वरं न भवति तदविघुष्टम् ५, 15 मधुमत्तकोकिलारुतवन्मधुरस्वरं मधुरम् ६, ताल - वंशस्वरादिसमनुगतं समम् ७, स्वरघोलनाप्रकारेण सुष्ठु अतिशयेन ललतीव यत् सुकुमालं तत् सुललितम् ८ । एते अष्टौ गुणा गीतस्य भवन्ति । एतद्विरहितं तु विडम्बनामात्रमेव तदिति । किं चोपलक्षणत्वादन्येऽपि गीतगुणा भवन्ति, ता उर गाहा । चकारो गेयगुणान्तरसमुच्चयार्थः, उरः कण्ठशिरोविशुद्धं च । अयमर्थः यद्युरसि स्वरो 20 विशालस्तर्ह्यरोविशुद्धम्, कण्ठे यदि स्वरो वर्त्तितोऽस्फुटितश्च तदा कण्ठविशुद्धम्, शिरसि प्राप्तो यदिनानुनासिकस्ततः शरोविशुद्धम्, अथवा उरः कण्ठशिरस्सु श्लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद् गीयते तदुरः कण्ठशिरोविशुद्धम्, गीयते गेयमिति संबध्यते । किंविशिष्टमित्याह - मृदुकं मृदुना अनिष्ठुरेण स्वरेण यद् गीयते तन्मृदुकम्, यत्राक्षरेषु घोलनया संचरन् स्वरो रङ्गतीव तद् घोलनाबहुलं रिभितम्, गेयपदैर्बद्धं विशिष्टविरचनया रचितं पदबद्धम्, ततश्च पदत्रयस्य 25 कर्मधारयः । समतालपडुक्खेवं ति तालाशब्देन हस्ततालासमुत्थ उपचाराच्छब्दो
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org