________________
अनुयोगद्वारसूत्रम् [सू० २६०]
३१५
विवक्षितः, मुरज-कांसिकादिगीतोपकारकातोद्यानांध्वनिःप्रत्युत्क्षेपः, नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः, समौ गीतस्वरेण तालाप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपम्।
सत्तसरसीभरं ति, सप्त स्वरा: सीभरन्ति अक्षरादिभिः समा यत्र तत् सप्तस्वरसीभरं गीतमिति, ते चामी सप्त स्वरा: - अक्खरसमंगाहा। यत्र दीर्घ अक्षरे दी| गीतस्वरः क्रियते ह्रस्वे ह्रस्व: प्लुते प्लुतः सानुनासिके तु सानुनासिक: तदक्षरसमम् १ । यद् गीतपदं 5 नामिकादिकं यत्र स्वरे अनुपाति भवति तत् तत्रैव येत्र गीयते तत् पदसमम् २ । यत् परस्पराहतहस्ततालस्वरानुसारिणा स्वरेण गीयते तत्तालसमम् ३ । शृङ्गदार्वाद्यन्यतरवस्तुमयेनाङ्गुलीकोशकेन समाहततन्त्रीस्वरप्रकारो लयः, तमनुसरता स्वरेण यद् गीयते तल्लयसमम् ४ । प्रथमतो वंशतन्त्र्यादिभिर्यः स्वरो गृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसमम् ५ । नि:श्वसितोच्छ्वसितमानमन तिक्रामतो यद् गेयं तद् 10 निःश्वसितोच्छ्वसितसमम्६।वंश-तन्त्र्यादिष्वेवाङ्गुलीसञ्चारसमंयद्गीयते तत्सञ्चारसमम् ७। एवमेते स्वरा: सप्त भवन्ति । इदमुक्तं भवति - एकोऽपि गीतस्वरोऽक्षर-पदादिभिः सप्तभिःस्थानैः सहसमत्वं प्रतिपद्यमान:सप्तधात्वमनुभवतीत्येते सप्तस्वरा अक्षरादिभिः समा दर्शिता भवन्तीति।
__ गीते च य: सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह - निद्दोसमित्यादि । तत्र 15 अलियमुवघायजणय [आवश्यकनि० ८८१-८८४, कल्पभा० २७८-२८१]मित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोषम् १ । विशिष्टार्थयुक्तंसारवत् २।गीतनिबद्धार्थगमकहेतुयुक्ततया दृष्टं हेतुयुक्तम् ३ । उपमाद्यलङ्कारयुक्तमलङ्कृतम् ४ । उपसंहारोपनययुक्तमुपनीतम् ५ । अनिष्ठुराविरुद्धालज्जनीयार्थवाचकं सानुप्रासं वा सोपचारम् ६ । अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितम्७। मधुरं श्रव्यशब्दार्थम् ८। गेयं भवतीति शेषः।
तिण्णि य वित्ताई ति यदुक्तं तत्राह - सममित्यादि । यत्र वृत्ते चतुर्ध्वपि पादेषु सङ्ख्यया समान्यक्षराणि भवन्ति तत् समम् । यत्र प्रथमतृतीययोर्द्वितीयचतुर्थयोश्च पादयोरक्षरसङ्ख्यासमत्वं तदर्द्धसमम् । यत्तु सर्वत्र सर्वपादेष्वक्षरसङ्ख्यावैषम्योपेतं तद् विषमम्। जंति यस्माद्वृत्तं भवतीति शेषः, तस्मात् त्रय एव वृत्तप्रकाराभवन्ति, चतुर्थस्तु प्रकारोनोपलभ्यतेऽसत्त्वादित्यर्थः । एवमन्यथाऽप्यविरोधतोव्याख्येयमिदमिति। 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org