________________
अनुयोगद्वारसूत्रम् [सू० २०६]
३१३
आह- सजेणेत्यादिश्लोकाः । षड्जेन लभते वृत्तिम्, अयमर्थः - षड्जस्येदं लक्षणं स्वरूपमस्ति येन तस्मिन् सति वृत्तिं जीवनं लभते प्राणी। एतच्च मनुष्यापेक्षया लक्ष्यते, वृत्तिलाभादीनां घटनात् । कृतं च न विनश्यति, तस्येति शेषः, निष्फलारम्भो न भवतीत्यर्थः । गावः पुत्राश्च मित्राणि च भवन्तीति शेषः । गान्धारे गीतयुक्तिज्ञा वर्यवृत्तयः प्रधानजीविका: कलाभिरधिकाः कवयः काव्यकर्तारः प्राज्ञाः सद्बोधा: ये 5 चोक्तेभ्यो गीतयुक्तिज्ञादिभ्योऽन्ये शास्त्रपारगा: चतुर्वेदादिशास्त्रपारगामिनस्ते भवन्तीति। शकुनेन श्येनलक्षणेन चरन्ति पापर्द्धिं कुर्वन्ति शकुनान् वा घ्नन्तीति शाकुनिकाः । वागुरा मृगबन्धनम्, तया चरन्तीति वागुरिकाः। शूकरेण सन्निहितेन शूकरवधार्थं चरन्ति शूकरान् वाघ्नन्तीति शौकरिका: । मौष्टिका मल्ला इति। पाठान्तराण्यप्युक्तानुसारेण व्याख्येयानि।
एएसिं णं सत्तण्हं सराणं तओ गामा इत्यादि । एतच्चिरन्तनमुनिगाथाभ्यां 10 व्याख्यायते, यथा -
सज्जाइ तिहा गामो, स समूहो मुच्छणाण विन्नेओ। ता सत्त एक्कमेक्के, तो सत्तसराण इगवीसा॥१॥ अन्नन्नसरविसेसे, उप्पायंतस्समुच्छणाभणिया।
कत्ता व मुच्छिओ इव, कुणई मुच्छंव सो वत्ति ॥२॥[ ] 15 कर्ता वा मूर्च्छित इव ता: करोतीति मूर्च्छना उच्यन्ते । मुच्छंवसोवत्तिमूर्च्छनिव वा स कर्ता ता: करोतीति मूर्च्छना उच्यन्त इत्यर्थः । मङ्गीप्रभृतीनां चैकविंशतिमूर्च्छनानां स्वरविशेषाः पूर्वगतस्वरप्राभृते भणिता:, इदानीं तु तद्विनिर्गतेभ्यो भरतविशाखिलादिशास्त्रेभ्यो विज्ञेया इति।
सत्त सरा कओ गाहा। इह चत्वारः प्रश्नाः, तत्र कुतः इति कस्मात् स्थानात् स्वरा 20 उत्पद्यन्ते १।कायोनिरिति का जाति: २। तथा कति समया येषु ते कतिसमयाउच्छ्वासाः, किंपरिमाणकाला इत्यर्थः ३ । तथा आकारा: आकृतयः, स्वरूपाणि इत्यर्थः ४ । उत्तरमाह- सत्त सरा नाभीओ इत्यादिगाथा स्पष्टा । नवरं रुदितं योनिः समानरूपतया जातिर्यस्य तद्रुदितयोनिकम्।पादसमाउच्वासा: यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्समया उच्छ्वासा गीते भवन्तीत्यर्थः।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org