________________
आ.श्रीजिनदासगणिविरचितचूर्णि-हरिभद्रसूरिविर०विवृति-मल० हेमचन्द्रसूरिविर०वृत्तिभिः समेतम् २९०
स एव पारिणामिक एव इत्युच्यते । सो य सादिअणादिभेदेण दुविहो । तत्र सादिः जुण्णघयमित्यादि जीर्णघृतादौ तद्भावस्य सादित्वात् सादिपारिणामिकता स्वभेदेष्वन्वयानुवृत्त्या सुखप्रतिपत्त्यर्थं जीर्णग्रहणम्, अन्यथा नवेष्वप्यविरोधः, तत्रापि कारणस्यैव तथापरिणते:, अन्यथोत्पत्त्यभावादिति कृतमत्रप्रसङ्गेन।अभ्रकेण (अभ्राणि?) सामान्येन । अभ्रवृक्षकाः तान्येव वृक्षाकाराणि । सन्ध्या पुद्गलपरिणाम एव । गन्धर्वनगरादीनि प्रतीतान्येव । यूपकाः सन्ध्याच्छेदावरणरूपाः, उक्तं च -
संझाछेदावरणो तु जूवओ सुक्के[दिण] तिण्णि । [आवश्यकनि० गा० १३३५] यक्षादीप्तकानि अग्निपिशाचाः ।धूमिका रूक्षा प्रविरला धूमाभा। महिका स्निग्धा घना
च। रजउद्घात: रजस्वला दिशः । चन्द्र-सूर्योपरागाः राहुग्रहणानि। चन्द्रपरिवेशादय: 10 प्रकटार्थाः । कपिहसितानि सहसादेव नभसि ज्वलभीमशब्दरूपाणि । अमोघादय:
सूत्रसिद्धाः। नवरं वर्षधरादिषु सदा तद्भावेऽपि पुद्गलानामसंख्येयकालादूर्ध्वं तत्स्था[न]स्थित्यभावात्सादिपरिणामतेति।अनादिप(पा)रिणामिकस्तुधर्मास्तिकायादिः, तद्भावस्य तेषामनादित्वादिति । शेषं सुगमं यावत् सेत्तं पारिणामिए।
से किं तं सन्निवाइए इत्यादि, सन्निपात: मेलकः, तेन निर्वृत्तः सान्निपातिकः । तथा 15 चाह - एतेसिं चेत्यादि, अयं च भङ्गकरचनाप्रमाणत: सम्भवा-ऽसम्भवमनपेक्ष्य
षड्विंशतिभङ्गकरूप: । इह च द्वयादिसंयोगभङ्गकपरिणामप्रदर्शनं सूत्रम्-तत्थ णं दस दुगसंयोगा इत्यादि प्रकटार्थम् । तथाऽपरिज्ञातद्वयादिसंयोगभङ्गकभावोत्कीर्तनज्ञापनार्थमिदं तत्थ णं जे ते दस दुगसंजोगा ते णं इमे इत्याधुत्तानार्थमेव । अत: परं
सान्निपातिकभङ्गोपदर्शनां सविस्तरामजानानः पृच्छति विनेय:-कतरे से णामे उदइए 20 इत्यादि । आचार्य आह-उदइए त्ति मणूसे इत्यादि सूत्रसिद्धमेव । इह च
यद्यप्यौदयिकौपशमिकमात्रनिर्वृत्त:असम्भवी, संसारिणांजघन्यतोऽप्यौदयिक-क्षायोपशमिकपारिणामिकभावत्रयोपेतत्वात्, तथापिभङ्गकरचनामात्रदर्शनार्थत्वाददुष्टः, एवमन्योऽप्यसम्भवी वेदितव्य इति । अविरुद्धास्तु पञ्चदश एव सान्निपातिकभेदा: तेऽनधिकृता अपि प्रदेशान्तरे उपयोगिन इति सान्निपातिकसाम्यान्निदर्श्यन्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org