________________
अनुयोगद्वारसूत्रम् [सू० २३३-२५९]
द्वादश कषायाः [अप्रत्याख्यान्याद्याः क्रोधाद्या: ], नव नोकषाया: हास्यादयः । नारकतैर्यग्योन - मनुष्य - देवानां भव- शरीरस्थितिकारणमायुष्कम् । तांस्तानात्मभावान् सन्नामयतीति नाम कर्मपुद्गलद्रव्यम् । प्रतिस्वगत्यभिधानकारणं नारकादिगतिनाम | जातिनिर्वृत्त्यभिधानकारणं जातिनाम पञ्चविधमेकेन्द्रियजातिनामादि । शरीरोत्पत्तिकारणं शरीरनाम पञ्चविधौदारिकशरीरनामादिकार्येण साधितम्। यदेषामेवाङ्गोपाङ्गनिर्वृत्तिकारणं 5 तदङ्गोपाङ्गनाम, तच्चाऽन्यत् शरीरनाम्नः, कथम् ? अङ्गोपाङ्गाभावेऽपि शरीरोपलब्धेः, तच्चप्राक्शरीरत्रये नान्यत्र । बोंदिः तनुः शरीरमिति पर्यायाः, अनेकताच जघन्यतोऽप्यौदारिकतैजस-कार्मणबोंदिभेदात्, वृन्दं तु तद्गताङ्गोपाङ्गसङ्घातभेदात्, सङ्घातः पुनरेकैकाङ्गादेरनन्तपरमाणुनिर्वृत्तत्वादिति । तथा सामायिकादिचरणक्रियासिद्धत्वात् सिद्धः। तथा जीवादितत्त्वबोधाद् बुद्धः । तथा बाह्या -ऽऽभ्यन्तरग्रन्थभेदनेन मुक्तत्वान्मुक्तः 10 । तथा प्राप्तव्यप्रकर्षप्राप्तेः परि सर्वप्रकारैर्निर्वृतः परिनिर्वृतः । संसारान्तकारित्वादन्तकृत् । एकान्तेनैव शारीर-: र-मानसदुःखप्रहाणात् सर्वदुः खप्रहीण इति । उक्तः क्षायिकः ।
से किं तं खओवसमिए ? खओवसमिए दुविहे पण्णत्ते, तंजहा - खओवसमे य खओवसमनिप्फण्णेय, तत्र क्षयोपशमः चतुर्णां घातिकर्मणां केवलज्ञानप्रतिबन्धकानां ज्ञानावरण-दर्शनावरण-मोहनीया - ऽन्तरायाणां क्षयोपशमः, णमिति पूर्ववत्, इह चोदीर्णस्य 15 क्षय: अनुदीर्णस्य च विपाकमधिकृत्योपशम इति गृह्यते । आह - औपशमिकोऽप्येवम्भूत एव, न, तत्रोपशमितस्य प्रदेशानुभवतोऽप्यवेदनाद् अस्मिंश्च वेदनादिति । अयं च क्षयोपशमः क्रियारूप एव। क्षयोपशमनिर्वृत्तस्त्वाभिनिबोधिकज्ञानादिलब्धेः परिणाम आत्मन एवेति, तथा चाह - खओवसमिया आभिणिबोहियणाणलद्धी इत्यादि सूत्रसिद्धमेव । नवरं बालवीर्यं मिथ्यादृष्टेरसंयतस्य, पण्डितवीर्यं सम्यग्दृष्टेः संयतस्य, बालपण्डितवीर्यं तु संयतासंयतस्य 20 श्रावकस्य । सेत्तं खओवसमिए ।
से किं तं पारिणामिए ? परिणमनं परिणामः, अपरित्यक्तपूर्वावस्थस्यैव तद्भावगमनमित्यर्थः, उक्तं च
-
परिणामो ह्यर्थान्तरगमनं न च सर्वथा ह्यवस्थानम्। न च सर्वथा विनाश: परिणामस्तद्विदामिष्टः॥१॥ [
Jain Education International
२८९
For Private & Personal Use Only
1
25
www.jainelibrary.org