________________
आ. श्रीजिनदासगणिविरचितचूर्णि - हरिभद्रसूरिविर० विवृति - - मल० हेमचन्द्रसूरिविर० वृत्तिभिः समेतम् २८८
तत्र क्षयः अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिभेदानां क्षय:, कर्माभाव एवेत्यर्थः, णमिति पूर्ववत्, क्षय एव क्षायिकः । क्षयनिष्पन्नस्तु फलरूपो विचित्र आत्मपरिणामः । तथा चाह उप्पण्णणाणदंसणेत्यादि, उत्पन्ने श्यामतापगमेनादर्शमण्डलप्रभावत् सकलतदावरणापगमादभिव्यक्ते ज्ञान दर्शने यस्य स तथाविधः । अरहा अविद्यमानरहस्य इत्यर्थः । 5 रागादिजेतृत्वाज्जिनः । केवलमस्यास्तीति केवली, सम्पूर्णज्ञानवानित्यर्थः । अत एवाहक्षीणाभिनिबोधिकज्ञानावरणीय इत्यादि विशेषविषयमेव, यावत् अनावरण: अविद्यमानावरणः सामान्येनैवाऽऽवरणरहितत्वात्, विशुद्धाम्बरे चन्द्रबिम्बवत् । तथा निर्गतावरणो निरावरणः आगन्तुकेतरावरणस्याप्यभावात्, राहुरहितचन्द्रबिम्बवत् । तथा क्षीणमेकान्तेनापुनर्भावितयाऽऽवरणं यस्यासौ क्षीणावरणः, अपाकृतमलावरणजात्यमणिवत् । 10 तथा ज्ञानावरणीयेन कर्मणा विविधम् अनेकैः प्रकारैः प्रकर्षेण मुक्तो ज्ञानावरणीयकर्मविप्रमुक्त इति निगमनम्, एकार्थिकानि वैतानि, नयमतभेदेनान्यथा वा भेदो वाच्य इति । केवलदर्शी सम्पूर्णदर्शी । क्षीणनिद्र इत्यादि सुगमं यावत् सेत्तं खयनिप्फन्ने । नवरं निद्रादिस्वरूपमिदम्सुहपडिबोहो निद्दा दुहपडिबोहो य निद्दनिद्दा य ।
पयला होति ठियस्सा पयलापयला य चंकमओ || १ || [निशीथभा० १३३] अतिसंकिलिङकम्माणुवेदणे होइ थीणगिद्धीओ। महनिद्दा दिणचिंतियवावारपसाहणी पायं ॥ २॥ [
1 सातावेदनीयं प्रीतिकारि । असायावेदनीयम् अप्रीतिकारि / क्रुध कोपे [पा०धा० ११८९], क्रोधनं क्रोध: कोपो रोषो दोषो द्वेषोऽनुपशम इत्यर्थः । मानः स्तम्भ: गर्व उत्सेक: अहङ्कारो दर्पः स्मयो मत्सर ईर्ष्यत्यर्थः । माया प्रणिधिः उपधिर्निकृतिः वञ्चनादम्भः 20 कूटमभिसन्धानंशाठ्यमनार्जवमित्यर्थः । लोभः रागः गार्घ्यमिच्छा मूर्च्छाऽभिलाषोऽभिष्वङ्गः काङ्क्षा स्नेह इत्यर्थः । माया लोभश्च प्रेम, क्रोधो मानश्च द्वेषः । तत्र यदर्हदवर्णवादहेतुलिङ्गं अर्हदादिश्रद्धानविघातकं दर्शनपरीषहकारणं तन्मिथ्यादर्शनम् । यन्मिथ्यास्वभावप्रचितपरिणामविशेषाद् विशुद्धयमानकं सप्रतिघाति सम्यक्त्वकारणं सम्यग्दर्शनम् । यन्मिथ्यात्वस्वभावचितं विशुद्धा ऽविशुद्धं श्रद्धा ऽश्रद्धाकारि तत् सम्यग्मिथ्यादर्शनम् । त्रिविधं 25 दर्शनमोहनीयमुक्तं कर्म | चारित्रमोहनीयं द्विविधम् - कषायवेदनीयं नोकषायवेदनीयं च ।
-
15
Jain Education International
-
For Private & Personal Use Only
-
www.jainelibrary.org