________________
अनुयोगद्वारसूत्रम् [ सू० २३३-२५९]
२८७
जीवस्स णियमाभावतिगमत्थि उदय-खयोवसम-पारिणामिया, तम्हा दुगभंगो णवत्तव्यो। आचार्याऽऽह-ण तुमंसिद्धंताभिप्पायं जाणसि, विचित्तो सुत्तत्थोभगवता सुत्तेसुदंसितो, इह यभंगो त्ति विकप्पो, विविधकप्पणातो विकप्पो, सो य किंचि अत्थविसेसेण निरवेक्खाऽणिरवेक्खो जधेव विकप्पं पयच्छति तधेव कज्जते, ण दोसो। गतं छव्विधणाम।
[हा० २३३-२५९] से किं तं छणामे ? २ छविहे पण्णत्ते इत्यादि, अत्र षड् 5 भावा औदयिकादयः प्ररूप्यन्ते, तथा च सूत्रम् - से किं तं ओदयिए? २ दुविहे पण्णत्ते, तंजहा- उदए य उदयनिप्फण्णे य, अत्रोदय: अष्टानां कर्मप्रकृतीनां ज्ञानावरणीयादिलक्षणानामुदयः, सत्तावस्थापरित्यागेनोदीरणावलिकामतिक्रम्योदयावलिकायामात्मीयरूपेण विपाक इत्यर्थः । णमिति वाक्यालङ्कारे । अत्र चैवं व्युत्पत्तिः, उदय एव औदयिकः । उदयनिष्पन्नस्तु द्वेधाजीवोदयनिप्फण्णेय अजीवोदयनिप्फण्णेय। तत्रजीवे उदयनिप्फन्नो 10 जीवोदयनिष्पन्नः, जीवे कर्मविपाकनिर्वृत्त इत्यर्थः, तथा च कर्मोदयसहकारिकारणकार्या एव नारकत्वादय इति प्रतीतम् । अन्ये तु जीवोदयाभ्यां निष्पन्नो जीवोदयनिष्पन्न इति व्याचक्षते, इदमप्यदुष्टमेव, परमार्थत: तस्य तत्समुदायकार्यत्वात्। एवमजीवोदयनिष्पन्नोऽपि वाच्यः। तथाच औदारिकशरीखायोग्यपुद्गलग्रहणंशरीरपरिणतिश्चन तथा कर्मोदयमन्तरेणेति, अत उक्तमौदारिकं वा शरीरमित्यादि। औदारिकशरीरप्रयोगपरिणामितं वा द्रव्यम्, 15 तच्चवर्ण-गन्धादि प्राणा-ऽपानादिच,नचेदमौदारिकशरीरव्यापारमन्तरेण तथा परिणमतीति। एवं वैक्रियादिष्वपि योजनीयम् । इह च वस्तुतः द्वयोरपि द्वयात्मकत्वे एकत्र जीवप्राधान्यमन्यत्राजीवप्राधान्यमाश्रीयत इति, ततश्चोपपन्नमेव जीवोदयनिष्पन्नः अजीवोदयनिष्पन्नश्चेत्यलं विस्तरेण। सेत्तं ओदयिए।
से किं तं ओवसमिए ? [ओवसमिए दुविहे पण्णत्ते,] तंजहा- उवसमे य 20 उवसमनिप्फण्णे य, तत्रोपशमो मोहनीयस्य कर्मण: अनन्तानुबन्ध्यादिभेदभिन्नस्य उपशमः, उपशमश्रेणीप्रतिपन्नस्य मोहनीयभेदा[न]नन्तानुबन्ध्यादीन् उपशमयतः, यत उदयाभाव इत्यर्थः, णमिति पूर्ववत्, उपशमएवौपशमिकः।उपशमनिष्पन्नस्तु उपशान्तक्रोध इत्यादि, उदयाभावफलरूप आत्मपरिणाम इति भावना।सेतं ओवसमिए।
से किं तं खइए ? खइए दुविहे पण्णत्ते, तंजहा- खए य खयनिप्फन्ने य, 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org