________________
अनुयोगद्वारसूत्रम् [सू० २१७-२२६]
२७१
२७१
अम्लोऽग्निदीप्तिकृत् स्निग्धः शोफ-पित्त-कफावहः ।
क्लेदनः पाचनो रुच्यो मूढवातानुलोमकः।।४॥[ पित्तादिप्रशमक: खण्ड-शर्कराद्याश्रितो मधुरः, तथा चोक्तम् -
पित्तं वातं विषं हन्ति धातुवृद्धिकरो गुरुः ।
जीवन: केशकृद्धाल-वृद्ध-क्षीणौजसां हितः।।५//[ ] इत्यादि। 5 स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकर्ता सिन्धुलवणाद्याश्रितो लवणोऽपिरस: पठ्यते, स चेह नोदाहृतः, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्षणात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण।
स्पृश्यत इति स्पर्शः । कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः । सन्नतिकारणं तिनिशलतादिगतो मृदुः । अध:पतनहेतुरयोगोलकादिगतो गुरुः। 10 प्रायस्तिर्यगूर्वाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः । देहस्तम्भादिहेतुः प्रालेयाद्याश्रितः शीतः। आहारपाकादिकारणं वह्नयाद्यनुगत उष्णः । पुद्गलद्रव्याणां मिथ: संयुज्यमानानां बन्धनिबन्धनं तैलादिस्थित: स्निग्धः । तेषामेवाबन्धनिबन्धनं भस्माद्याधारो रूक्षः । एतत्संसर्गजास्तु नोक्ताः, एष्वेवान्तर्भावादिति । संस्थानस्वरूपं तु प्रतीतमेव।
__ परि समन्तादवन्ति अपगच्छन्ति न तु द्रव्यवत् सर्वदैवावतिष्ठन्त इति पर्यवा:, 15 अथवा परि समन्ताद् अवनानि गमनानि द्रव्यस्यावस्थान्तरप्राप्तिरूपाणि पर्यवा: एकगुणकालत्वादयः, तेषां नाम पर्यवनाम, यत्रतुपर्यायनामेति पाठः, तत्रपरि समन्तादयन्ते अपगच्छन्ति न पुनर्द्रव्यवत् सर्वदैव तिष्ठन्तीति पर्यायाः, अथवा परि सामस्त्येन एति अभिगच्छति व्याप्नोति वस्तु तानिति पर्याया: एकगुणकालत्वादय एव, तेषां नाम पर्यायनामेति । तत्रेह गुणशब्दोंऽशपर्याय:, ततश्च सर्वस्यापि त्रैलोक्यगतकालत्वस्यासत्कल्पनया 20 पिण्डितस्य य एकः सर्वजघन्यो गुण: अंशस्तेन कालक: परमाण्वादिरेकगुणकालक:, सर्वजघन्यकृष्ण इत्यर्थः। द्वाभ्यांगुणाभ्यां तदंशाभ्यां कालक: परमाण्वादिरेव द्विगुणकालकः, एवं तावन्नेयं यावदनन्तैर्गुणैः तदंशै:कालकोऽनन्तगुणकालकःस एवेति। एवमुक्तानुसारेणैकगुणनीलकादीनामेकगुणसुरभिगन्धादीनां च सर्वत्र भावना कार्येति। आह - गुण-पर्याययोः कः प्रतिविशेष: ? उच्यते, सदैव सहवर्तित्वाद्वर्ण-गन्ध-रसादय:सामान्येन गुणा उच्यन्ते, न 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org